कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः। रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदम्
अपगच्छत पश्यध्वं सीतामाप्नोति राघवः। घातयेत् परमामर्षी युष्मान् सार्धं हि राक्षसैः
प्रियां बहुमतां भार्यां वनवासमनुव्रताम्। भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः
तदलं क्रूरवाक्यैश्च सान्त्वमेवाभिधीयताम्। अभियाचाम वैदेहीमेतद्धि मम रोचते
यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते। सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया। राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा। अलमेषा परित्रातुं राक्षस्यो महतो भयात्
अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये। विरूपमपि चांगेषु सुसूक्ष्ममपि लक्षणम्
छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम्। अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम्
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्। राक्षसेन्द्रविनाशं च विजयं राघवस्य च
निमित्तभूतमेतत् तु श्रोतुमस्या महत् प्रियम्। दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम्
ईषद्धि हृषितो वास्या दक्षिणाया ह्यदक्षिणः। अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते
करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः। वेपन् कथयतीवास्या राघवं पुरतः स्थितम्
पक्षी च शाखानिलयं प्रविष्टः पुनः पुनश्चोत्तमसान्त्ववादी। सुस्वागतां वाचमुदीरयाणः पुनः पुनश्चोदयतीव हृष्टः
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता। अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः
thumb|अष्टाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टाविंशः सर्गः ॥५-
सा राक्षसेन्द्रस्य वचो निशम्य तद् रावणस्याप्रियमप्रियार्ता। सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या
सा राक्षसीमध्यगता च भीरु- र्वाग्भिर्भृशं रावणतर्जिता च। कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः। यत्राहमेवं परिभर्त्स्यमाना जीवामि यस्मात् क्षणमप्यपुण्या
सुखाद् विहीनं बहुदुःखपूर्ण- मिदं तु नूनं हृदयं स्थिरं मे। विदीर्यते यन्न सहस्रधाद्य वज्राहतं शृंगमिवाचलस्य
नैवास्ति नूनं मम दोषमत्र वध्याहमस्याप्रियदर्शनस्य। भावं न चास्याहमनुप्रदातु- मलं द्विजो मन्त्रमिवाद्विजाय
तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः। नूनं ममांगान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः
दुःखं बतेदं ननु दुःखिताया मासौ चिरायाभिगमिष्यतो द्वौ। बद्धस्य वध्यस्य यथा निशान्ते राजोपरोधादिव तस्करस्य
हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्यः। एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ। नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्युतेन
नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम्। यत्रार्यपुत्रौ विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च
हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्त्र। हा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम्
अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे। पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम्
मोघो हि धर्मश्चरितो ममायं तथैकपत्नीत्वमिदं निरर्थकम्। या त्वां न पश्यामि कृशा विवर्णा हीना त्वया संगमने निराशा
पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च। स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः संरंस्यसे वीतभयः कृतार्थः