दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम्। मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः
प्रस्थितो दक्षिणामाशां प्रविष्टोऽकर्दमं ह्रदम्। कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी
काली कर्दमलिप्तांगी दिशं याम्यां प्रकर्षति। एवं तत्र मया दृष्टः कुम्भकर्णो महाबलः
रावणस्य सुताः सर्वे मुण्डास्तैलसमुक्षिताः। वराहेण दशग्रीवः शिशुमारेण चेन्द्रजित्
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम्। एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः। शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलंकृतः
आरुह्य शैलसंकाशं मेघस्तनितनिःस्वनम्। चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः
चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः
समाजश्च महान् वृत्तो गीतवादित्रनिःस्वनः। पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्
लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा। सागरे पतिता दृष्टा भग्नगोपुरतोरणा
लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता। दग्धा रामस्य दूतेन वानरेण तरस्विना
पीत्वा तैलं प्रमत्ताश्च प्रहसन्त्यो महास्वनाः। लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः। रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदम्
अपगच्छत पश्यध्वं सीतामाप्नोति राघवः। घातयेत् परमामर्षी युष्मान् सार्धं हि राक्षसैः
प्रियां बहुमतां भार्यां वनवासमनुव्रताम्। भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः
तदलं क्रूरवाक्यैश्च सान्त्वमेवाभिधीयताम्। अभियाचाम वैदेहीमेतद्धि मम रोचते
यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते। सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया। राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा। अलमेषा परित्रातुं राक्षस्यो महतो भयात्
अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये। विरूपमपि चांगेषु सुसूक्ष्ममपि लक्षणम्
छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम्। अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम्
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्। राक्षसेन्द्रविनाशं च विजयं राघवस्य च
निमित्तभूतमेतत् तु श्रोतुमस्या महत् प्रियम्। दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम्
ईषद्धि हृषितो वास्या दक्षिणाया ह्यदक्षिणः। अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते
करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः। वेपन् कथयतीवास्या राघवं पुरतः स्थितम्
पक्षी च शाखानिलयं प्रविष्टः पुनः पुनश्चोत्तमसान्त्ववादी। सुस्वागतां वाचमुदीरयाणः पुनः पुनश्चोदयतीव हृष्टः
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता। अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः
thumb|अष्टाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टाविंशः सर्गः ॥५-
सा राक्षसेन्द्रस्य वचो निशम्य तद् रावणस्याप्रियमप्रियार्ता। सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या
सा राक्षसीमध्यगता च भीरु- र्वाग्भिर्भृशं रावणतर्जिता च। कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता