पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्। इहोपयातः काकुत्स्थः सीतया सह भार्यया
शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः। ततोऽन्यत्र मया दृष्टो रामः सत्यपराक्रमः
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्। आरुह्य पुष्पकं दिव्यं विमानं सूर्यसंनिभम्
उत्तरां दिशमालोच्य प्रस्थितः पुरुषोत्तमः। एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया। न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः
राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव। रावणश्च मया दृष्टो मुण्डस्तैलसमुक्षितः
रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः। विमानात् पुष्पकादद्य रावणः पतितः क्षितौ
कृष्यमाणः स्त्रिया मुण्डो दृष्टः कृष्णाम्बरः पुनः। रथेन खरयुक्तेन रक्तमाल्यानुलेपनः
पिबंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः। गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः
पुनरेव मया दृष्टो रावणो राक्षसेश्वरः। पतितोऽवाक्शिरा भूमौ गर्दभाद् भयमोहितः
दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम्। मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः
प्रस्थितो दक्षिणामाशां प्रविष्टोऽकर्दमं ह्रदम्। कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी
काली कर्दमलिप्तांगी दिशं याम्यां प्रकर्षति। एवं तत्र मया दृष्टः कुम्भकर्णो महाबलः
रावणस्य सुताः सर्वे मुण्डास्तैलसमुक्षिताः। वराहेण दशग्रीवः शिशुमारेण चेन्द्रजित्
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम्। एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः। शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलंकृतः
आरुह्य शैलसंकाशं मेघस्तनितनिःस्वनम्। चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः
चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः
समाजश्च महान् वृत्तो गीतवादित्रनिःस्वनः। पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्
लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा। सागरे पतिता दृष्टा भग्नगोपुरतोरणा
लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता। दग्धा रामस्य दूतेन वानरेण तरस्विना
पीत्वा तैलं प्रमत्ताश्च प्रहसन्त्यो महास्वनाः। लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः। रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदम्
अपगच्छत पश्यध्वं सीतामाप्नोति राघवः। घातयेत् परमामर्षी युष्मान् सार्धं हि राक्षसैः
प्रियां बहुमतां भार्यां वनवासमनुव्रताम्। भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः
तदलं क्रूरवाक्यैश्च सान्त्वमेवाभिधीयताम्। अभियाचाम वैदेहीमेतद्धि मम रोचते
यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते। सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया। राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा। अलमेषा परित्रातुं राक्षस्यो महतो भयात्
अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये। विरूपमपि चांगेषु सुसूक्ष्ममपि लक्षणम्