धन्याः खलु महात्मानो मुनयः सत्यसम्मताः। जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये
प्रियान्न सम्भवेद् दुःखमप्रियादधिकं भवेत्। ताभ्यां हि ते वियुज्यन्ते नमस्तेषां महात्मनाम्
साहं त्यक्ता प्रियेणैव रामेण विदितात्मना। प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम्
thumb|सप्तविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तविंशः सर्गः ॥५-
इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्च्छिताः। काश्चिज्जग्मुस्तदाख्यातुं रावणस्य दुरात्मनः
ततः सीतामुपागम्य राक्षस्यो भीमदर्शनाः। पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन्
अद्येदानीं तवानार्ये सीते पापविनिश्चये। राक्षस्यो भक्षयिष्यन्ति मांसमेतद् यथासुखम्
सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा। राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत्
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ। जनकस्य सुतामिष्टां स्नुषां दशरथस्य च
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः। राक्षसानामभावाय भर्तुरस्या भवाय च
एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः। सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः
कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि। तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम्
उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम्। गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम्
युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः। शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः
स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता। सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता
रामेण संगता सीता भास्करेण प्रभा यथा। राघवश्च पुनर्दृष्टश्चतुर्दन्तं महागजम्
आरूढः शैलसंकाशं चकास सहलक्ष्मणः। ततस्तु सूर्यसंकाशौ दीप्यमानौ स्वतेजसा
शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ। ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता। भर्तुरङ्कात् समुत्पत्य ततः कमललोचना
चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती। ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः। सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्। इहोपयातः काकुत्स्थः सीतया सह भार्यया
शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः। ततोऽन्यत्र मया दृष्टो रामः सत्यपराक्रमः
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्। आरुह्य पुष्पकं दिव्यं विमानं सूर्यसंनिभम्
उत्तरां दिशमालोच्य प्रस्थितः पुरुषोत्तमः। एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया। न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः
राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव। रावणश्च मया दृष्टो मुण्डस्तैलसमुक्षितः
रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः। विमानात् पुष्पकादद्य रावणः पतितः क्षितौ
कृष्यमाणः स्त्रिया मुण्डो दृष्टः कृष्णाम्बरः पुनः। रथेन खरयुक्तेन रक्तमाल्यानुलेपनः
पिबंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः। गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः
पुनरेव मया दृष्टो रावणो राक्षसेश्वरः। पतितोऽवाक्शिरा भूमौ गर्दभाद् भयमोहितः