किं नु तत् कारणं येन रामो दृढपराक्रमः। रक्षसापहृतां भार्यामिष्टां यो नाभिपद्यते
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः। जानन्नपि स तेजस्वी धर्षणां मर्षयिष्यति
हृतेति मां योऽधिगत्य राघवाय निवेदयेत्। गृध्रराजोऽपि स रणे रावणेन निपातितः
कृतं कर्म महत् तेन मां तथाभ्यवपद्यता। तिष्ठता रावणवधे वृद्धेनापि जटायुषा
यदि मामिह जानीयाद् वर्तमानां हि राघवः। अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम्
निर्दहेच्च पुरीं लङ्कां निर्दहेच्च महोदधिम्। रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्
ततो निहतनाथानां राक्षसीनां गृहे गृहे। यथाहमेवं रुदती तथा भूयो न संशयः
अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः। नहि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति
चिताधूमाकुलपथा गृध्रमण्डलमण्डिता। अचिरेणैव कालेन श्मशानसदृशी भवेत्
अचिरेणैव कालेन प्राप्स्याम्येनं मनोरथम्। दुष्प्रस्थानोऽयमाभाति सर्वेषां वो विपर्ययः
नूनं लङ्का हते पापे रावणे राक्षसाधिपे। शोषमेष्यति दुर्धर्षा प्रमदा विधवा यथा
पुण्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा। भविष्यति पुरी लङ्का नष्टभर्त्री यथांगना
नूनं राक्षसकन्यानां रुदतीनां गृहे गृहे। श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्
सान्धकारा हतद्योता हतराक्षसपुंगवा। भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः
यदि नाम स शूरो मां रामो रक्तान्तलोचनः। जानीयाद् वर्तमानां यां राक्षसस्य निवेशने
अनेन तु नृशंसेन रावणेनाधमेन मे। समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः
स च मे विहितो मृत्युरस्मिन् दुष्टेन वर्तते। अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः
अधर्मात् तु महोत्पातो भविष्यति हि साम्प्रतम्। नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः
ध्रुवं मां प्रातराशार्थं राक्षसः कल्पयिष्यति। साहं कथं करिष्यामि तं विना प्रियदर्शनम्
रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता। क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना
नाजानाज्जीवतीं रामः स मां भरतपूर्वजः। जानन्तौ तु न कुर्यातां नोर्व्यां हि परिमार्गणम्
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः। देवलोकमितो यातस्त्यक्त्वा देहं महीतले
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। मम पश्यन्ति ये वीरं रामं राजीवलोचनम्
अथवा नहि तस्यार्थो धर्मकामस्य धीमतः। मया रामस्य राजर्षेर्भार्यया परमात्मनः
दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यदृश्यतः। नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति
किं वा मय्यगुणाः केचित् किं वा भाग्यक्षयो हि मे। या हि सीता वरार्हेण हीना रामेण भामिनी
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मना। रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात्
अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ। भ्रातरौ हि नरश्रेष्ठौ चरन्तौ वनगोचरौ
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना। छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ
साहमेवंविधे काले मर्तुमिच्छामि सर्वतः। न च मे विहितो मृत्युरस्मिन् दुःखेऽतिवर्तति