अश्मसारमिदं नूनमथवाप्यजरामरम्। हृदयं मम येनेदं न दुःखेन विशीर्यते
धिङ्मामनार्यामसतीं याहं तेन विना कृता। मुहूर्तमपि जीवामि जीवितं पापजीविका
चरणेनापि सव्येन न स्पृशेयं निशाचरम्। रावणं किं पुनरहं कामयेयं विगर्हितम्
प्रत्याख्यानं न जानाति नात्मानं नात्मनः कुलम्। यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति
छिन्ना भिन्ना प्रभिन्ना वा दीप्ता वाग्नौ प्रदीपिता। रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम्
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः। सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्
राक्षसानां जनस्थाने सहस्राणि चतुर्दश। एकेनैव निरस्तानि स मां किं नाभिपद्यते
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा। समर्थः खलु मे भर्ता रावणं हन्तुमाहवे
विराधो दण्डकारण्ये येन राक्षसपुंगवः। रणे रामेण निहतः स मां किं नाभिपद्यते
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा। न तु राघवबाणानां गतिरोधो भविष्यति
किं नु तत् कारणं येन रामो दृढपराक्रमः। रक्षसापहृतां भार्यामिष्टां यो नाभिपद्यते
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः। जानन्नपि स तेजस्वी धर्षणां मर्षयिष्यति
हृतेति मां योऽधिगत्य राघवाय निवेदयेत्। गृध्रराजोऽपि स रणे रावणेन निपातितः
कृतं कर्म महत् तेन मां तथाभ्यवपद्यता। तिष्ठता रावणवधे वृद्धेनापि जटायुषा
यदि मामिह जानीयाद् वर्तमानां हि राघवः। अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम्
निर्दहेच्च पुरीं लङ्कां निर्दहेच्च महोदधिम्। रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्
ततो निहतनाथानां राक्षसीनां गृहे गृहे। यथाहमेवं रुदती तथा भूयो न संशयः
अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः। नहि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति
चिताधूमाकुलपथा गृध्रमण्डलमण्डिता। अचिरेणैव कालेन श्मशानसदृशी भवेत्
अचिरेणैव कालेन प्राप्स्याम्येनं मनोरथम्। दुष्प्रस्थानोऽयमाभाति सर्वेषां वो विपर्ययः
नूनं लङ्का हते पापे रावणे राक्षसाधिपे। शोषमेष्यति दुर्धर्षा प्रमदा विधवा यथा
पुण्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा। भविष्यति पुरी लङ्का नष्टभर्त्री यथांगना
नूनं राक्षसकन्यानां रुदतीनां गृहे गृहे। श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्
सान्धकारा हतद्योता हतराक्षसपुंगवा। भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः
यदि नाम स शूरो मां रामो रक्तान्तलोचनः। जानीयाद् वर्तमानां यां राक्षसस्य निवेशने
अनेन तु नृशंसेन रावणेनाधमेन मे। समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः
स च मे विहितो मृत्युरस्मिन् दुष्टेन वर्तते। अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः
अधर्मात् तु महोत्पातो भविष्यति हि साम्प्रतम्। नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः
ध्रुवं मां प्रातराशार्थं राक्षसः कल्पयिष्यति। साहं कथं करिष्यामि तं विना प्रियदर्शनम्
रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता। क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना