पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु। ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत्
अजामुख्या यदुक्तं वै तदेव मम रोचते। सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी
मानुषं मांसमास्वाद्य नृत्यामोऽथ निकुम्भिलाम्। एवं निर्भर्त्स्यमाना सा सीता सुरसुतोपमा। राक्षसीभिर्विरूपाभिर्धैर्यमुत्सृज्य रोदिति
thumb|पञ्चविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चविंशः सर्गः ॥५-
अथ तासां वदन्तीनां परुषं दारुणं बहु। राक्षसीनामसौम्यानां रुरोद जनकात्मजा
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी। उवाच परमत्रस्ता बाष्पगद्गदया गिरा
न मानुषी राक्षसस्य भार्या भवितुमर्हति। कामं खादत मां सर्वा न करिष्यामि वो वचः
सा राक्षसीमध्यगता सीता सुरसुतोपमा। न शर्म लेभे शोकार्ता रावणेनेव भर्त्सिता
वेपते स्माधिकं सीता विशन्तीवांगमात्मनः। वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम्। चिन्तयामास शोकेन भर्तारं भग्नमानसा
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः। चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति
सा वेपमाना पतिता प्रवाते कदली यथा। राक्षसीनां भयत्रस्ता विवर्णवदनाभवत्
तस्याः सा दीर्घबहुला वेपन्त्याः सीतया तदा। ददृशे कम्पिता वेणी व्यालीव परिसर्पती
सा निःश्वसन्ती शोकार्ता कोपोपहतचेतना। आर्ता व्यसृजदश्रूणि मैथिली विललाप च
हा रामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च। हा श्वश्रूर्मम कौसल्ये हा सुमित्रेति भामिनी
लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः। अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा
यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता। जीवामि हीना रामेण मुहूर्तमपि दुःखिता
एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत्। समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता
भर्तारं तमपश्यन्ती राक्षसीवशमागता। सीदामि खलु शोकेन कूलं तोयहतं यथा
तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम्। धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्
सर्वथा तेन हीनाया रामेण विदितात्मना। तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवनम्
कीदृशं तु महापापं मया देहान्तरे कृतम्। तेनेदं प्राप्यते घोरं महादुःखं सुदारुणम्
जीवितं त्यक्तुमिच्छामि शोकेन महता वृता। राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्। न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम्
thumb|षड्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षड्विंशः सर्गः ॥५-
प्रसक्ताश्रुमुखी त्वेवं ब्रुवती जनकात्मजा। अधोगतमुखी बाला विलप्तुमुपचक्रमे
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती। उपावृत्ता किशोरीव विचेष्टन्ती महीतले
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा। रावणेन प्रमथ्याहमानीता क्रोशती बलात्
राक्षसीवशमापन्ना भर्त्स्यमाना च दारुणम्। चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे
नहि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः। वसन्त्या राक्षसीमध्ये विना रामं महारथम्