दिव्यांगरागा वैदेहि दिव्याभरणभूषिता। अद्यप्रभृति लोकानां सर्वेषामीश्वरी भव
अग्नेः स्वाहा यथा देवी शची वेन्द्रस्य शोभने। किं ते रामेण वैदेहि कृपणेन गतायुषा
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि। अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्
अन्या तु विकटा नाम लम्बमानपयोधरा। अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य तर्जती
बहून्यप्रतिरूपाणि वचनानि सुदुर्मते। अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि
न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम्। आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्
रावणान्तःपुरे घोरे प्रविष्टा चासि मैथिलि। रावणस्य गृहे रुद्धा अस्माभिस्त्वभिरक्षिता
न त्वां शक्तः परित्रातुमपि साक्षात् पुरंदरः। कुरुष्व हितवादिन्या वचनं मम मैथिलि
अलमश्रुनिपातेन त्यज शोकमनर्थकम्। भज प्रीतिं प्रहर्षं च त्यजन्ती नित्यदैन्यताम्
सीते राक्षसराजेन परिक्रीड यथासुखम्। जानीमहे यथा भीरु स्त्रीणां यौवनमध्रुवम्
यावन्न ते व्यतिक्रामेत् तावत् सुखमवाप्नुहि। उद्यानानि च रम्याणि पर्वतोपवनानि च
सह राक्षसराजेन चर त्वं मदिरेक्षणे। स्त्रीसहस्राणि ते देवि वशे स्थास्यन्ति सुन्दरि
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्। उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि
यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि। ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना
भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत्। इमां हरिणशावाक्षीं त्रासोत्कम्पपयोधराम्
रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानयम्। यकृत्प्लीहं महत् क्रोडं हृदयं च सबन्धनम्
गात्राण्यपि तथा शीर्षं खादेयमिति मे मतिः। ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत्
कण्ठमस्या नृशंसायाः पीडयामः किमास्यते। निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह
नात्र कश्चन संदेहः खादतेति स वक्ष्यति। ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत्
विशस्येमां ततः सर्वान् समान् कुरुत पिण्डकान्। विभजाम ततः सर्वा विवादो मे न रोचते
पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु। ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत्
अजामुख्या यदुक्तं वै तदेव मम रोचते। सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी
मानुषं मांसमास्वाद्य नृत्यामोऽथ निकुम्भिलाम्। एवं निर्भर्त्स्यमाना सा सीता सुरसुतोपमा। राक्षसीभिर्विरूपाभिर्धैर्यमुत्सृज्य रोदिति
thumb|पञ्चविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चविंशः सर्गः ॥५-
अथ तासां वदन्तीनां परुषं दारुणं बहु। राक्षसीनामसौम्यानां रुरोद जनकात्मजा
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी। उवाच परमत्रस्ता बाष्पगद्गदया गिरा
न मानुषी राक्षसस्य भार्या भवितुमर्हति। कामं खादत मां सर्वा न करिष्यामि वो वचः
सा राक्षसीमध्यगता सीता सुरसुतोपमा। न शर्म लेभे शोकार्ता रावणेनेव भर्त्सिता
वेपते स्माधिकं सीता विशन्तीवांगमात्मनः। वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम्। चिन्तयामास शोकेन भर्तारं भग्नमानसा