त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम्। भर्तारमुपसंगम्य विहरस्व यथासुखम्
मानुषी मानुषं तं तु राममिच्छसि शोभने। राज्याद् भ्रष्टमसिद्धार्थं विक्लवन्तमनिन्दिते
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा। नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्
यदिदं लोकविद्विष्टमुदाहरत संगताः। नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति
न मानुषी राक्षसस्य भार्या भवितुमर्हति। कामं खादत मां सर्वा न करिष्यामि वो वचः
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः। तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला
यथा शची महाभागा शक्रं समुपतिष्ठति। अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा
लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा। सावित्री सत्यवन्तं च कपिलं श्रीमती यथा
सौदासं मदयन्तीव केशिनी सगरं यथा। नैषधं दमयन्तीव भैमी पतिमनुव्रता
तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता। सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः। भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः
अवलीनः स निर्वाक्यो हनुमान् शिंशपाद्रुमे। सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत् कपिः
तामभिक्रम्य संरब्धा वेपमानां समन्ततः। भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान्
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्। नेयमर्हति भर्तारं रावणं राक्षसाधिपम्
सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरांगना। सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत्
ततस्तां शिंशपां सीता राक्षसीभिः समावृता। अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता
तां कृशां दीनवदनां मलिनाम्बरवासिनीम्। भर्त्सयाञ्चक्रिरे भीमा राक्षस्यस्ताः समन्ततः
ततस्तु विनता नाम राक्षसी भीमदर्शना। अब्रवीत् कुपिताकारा कराला निर्णतोदरी
सीते पर्याप्तमेतावद् भर्तुः स्नेहः प्रदर्शितः। सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते
परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः। ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्। विक्रान्तमापतन्तं च सुरेशमिव वासवम्
दिव्यांगरागा वैदेहि दिव्याभरणभूषिता। अद्यप्रभृति लोकानां सर्वेषामीश्वरी भव
अग्नेः स्वाहा यथा देवी शची वेन्द्रस्य शोभने। किं ते रामेण वैदेहि कृपणेन गतायुषा
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि। अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्
अन्या तु विकटा नाम लम्बमानपयोधरा। अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य तर्जती
बहून्यप्रतिरूपाणि वचनानि सुदुर्मते। अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि
न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम्। आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्
रावणान्तःपुरे घोरे प्रविष्टा चासि मैथिलि। रावणस्य गृहे रुद्धा अस्माभिस्त्वभिरक्षिता
न त्वां शक्तः परित्रातुमपि साक्षात् पुरंदरः। कुरुष्व हितवादिन्या वचनं मम मैथिलि
अलमश्रुनिपातेन त्यज शोकमनर्थकम्। भज प्रीतिं प्रहर्षं च त्यजन्ती नित्यदैन्यताम्
सीते राक्षसराजेन परिक्रीड यथासुखम्। जानीमहे यथा भीरु स्त्रीणां यौवनमध्रुवम्