मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे। ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्
विवृत्य नयने कोपान्मार्जारसदृशेक्षणा। येन देवास्त्रयस्त्रिंशद् देवराजश्च निर्जितः
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि। वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः। बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लिप्ससे
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः। सर्वासां च महाभागां त्वामुपैष्यति रावणः
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्। अन्तःपुरं तदुत्सृज्य त्वामुपैष्यति रावणः
अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत्। असकृद् भीमवीर्येण नागा गन्धर्वदानवाः। निर्जिताः समरे येन स ते पार्श्वमुपागतः
तस्य सर्वसमृद्धस्य रावणस्य महात्मनः। किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे
ततस्तां दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्। यस्य सूर्यो न तपति भीतो यस्य स मारुतः। न वाति स्मायतापाङ्गि किं त्वं तस्य न तिष्ठसे
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात्। शैलाः सुस्रुवुः पानीयं जलदाश्च यदेच्छति
तस्य नैर्ऋतराजस्य राजराजस्य भामिनि। किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि
साधु ते तत्त्वतो देवि कथितं साधु भामिनि। गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि
thumb|चतुर्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुर्विंशः सर्गः ॥५-
ततः सीतां समस्तास्ता राक्षस्यो विकृताननाः। परुषं परुषानर्हामूचुस्तद्वाक्यमप्रियम्
किं त्वमन्तःपुरे सीते सर्वभूतमनोरमे। महार्हशयनोपेते न वासमनुमन्यसे
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे। प्रत्याहर मनो रामान्नैवं जातु भविष्यति
त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम्। भर्तारमुपसंगम्य विहरस्व यथासुखम्
मानुषी मानुषं तं तु राममिच्छसि शोभने। राज्याद् भ्रष्टमसिद्धार्थं विक्लवन्तमनिन्दिते
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा। नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्
यदिदं लोकविद्विष्टमुदाहरत संगताः। नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति
न मानुषी राक्षसस्य भार्या भवितुमर्हति। कामं खादत मां सर्वा न करिष्यामि वो वचः
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः। तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला
यथा शची महाभागा शक्रं समुपतिष्ठति। अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा
लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा। सावित्री सत्यवन्तं च कपिलं श्रीमती यथा
सौदासं मदयन्तीव केशिनी सगरं यथा। नैषधं दमयन्तीव भैमी पतिमनुव्रता
तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता। सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः। भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः
अवलीनः स निर्वाक्यो हनुमान् शिंशपाद्रुमे। सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत् कपिः
तामभिक्रम्य संरब्धा वेपमानां समन्ततः। भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान्
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्। नेयमर्हति भर्तारं रावणं राक्षसाधिपम्
सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरांगना। सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत्
ततस्तां शिंशपां सीता राक्षसीभिः समावृता। अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता