अनयेनाभिसम्पन्नमर्थहीनमनुव्रते। नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। संददर्श ततः सर्वा राक्षसीर्घोरदर्शनाः
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम्
हस्तिपद्यश्वपद्यौ च गोपदीं पादचूलिकाम्। एकाक्षीमेकपादीं च पृथुपादीमपादिकाम्
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्। अतिमात्रास्यनेत्रां च दीर्घजिह्वानखामपि
अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्। यथा मद्वशगा सीता क्षिप्रं भवति जानकी
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य वा। प्रतिलोमानुलोमैश्च सामदानादिभेदनैः
आवर्जयत वैदेहीं दण्डस्योद्यमनेन च। इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः
काममन्युपरीतात्मा जानकीं प्रति गर्जत। उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्। मया क्रीड महाराज सीतया किं तवानया
विवर्णया कृपणया मानुष्या राक्षसेश्वर। नूनमस्यां महाराज न देवा भोगसत्तमान्
विदधत्यमरश्रेष्ठास्तव बाहुबलार्जितान्। अकामां कामयानस्य शरीरमुपतप्यते
इच्छतीं कामयानस्य प्रीतिर्भवति शोभना। एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली। प्रहसन् मेघसंकाशो राक्षसः स न्यवर्तत
प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम्। ज्वलद्भास्करसंकाशं प्रविवेश निवेशनम्
देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः। परिवार्य दशग्रीवं प्रविशुस्ता गृहोत्तमम्
स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः। विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश रावणः
thumb|त्रयोविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रयोविंशः सर्गः ॥५-
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते। राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः। परं परुषया वाचा वैदेहीमिदमब्रुवन्
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः। दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत्। आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम्
प्रजापतीनां षण्णां तु चतुर्थोऽयं प्रजापतिः। मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः। नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि
मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे। ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्
विवृत्य नयने कोपान्मार्जारसदृशेक्षणा। येन देवास्त्रयस्त्रिंशद् देवराजश्च निर्जितः
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि। वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः। बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लिप्ससे
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः। सर्वासां च महाभागां त्वामुपैष्यति रावणः
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्। अन्तःपुरं तदुत्सृज्य त्वामुपैष्यति रावणः