असंदेशात्तु रामस्य तपसश्चानुपालनात्। न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा
नापहर्तुमहं शक्या तस्य रामस्य धीमतः। विधिस्तव वधार्थाय विहितो नात्र संशयः
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः। विवृत्य नयने क्रूरे जानकीमन्ववैक्षत
नीलजीमूतसंकाशो महाभुजशिरोधरः। सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वोग्रलोचनः
चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः। रक्तमाल्याम्बरधरस्तप्तांगदविभूषणः
श्रोणीसूत्रेण महता मेचकेन सुसंवृतः। अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः। शुशुभेऽचलसंकाशः शृंगाभ्यामिव मन्दरः
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः। रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः
स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान्। श्मशानचैत्यप्रतिमो भूषितोऽपि भयंकरः
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः। उवाच रावणः सीतां भुजंग इव निःश्वसन्
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते। नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। संददर्श ततः सर्वा राक्षसीर्घोरदर्शनाः
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम्
हस्तिपद्यश्वपद्यौ च गोपदीं पादचूलिकाम्। एकाक्षीमेकपादीं च पृथुपादीमपादिकाम्
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्। अतिमात्रास्यनेत्रां च दीर्घजिह्वानखामपि
अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्। यथा मद्वशगा सीता क्षिप्रं भवति जानकी
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य वा। प्रतिलोमानुलोमैश्च सामदानादिभेदनैः
आवर्जयत वैदेहीं दण्डस्योद्यमनेन च। इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः
काममन्युपरीतात्मा जानकीं प्रति गर्जत। उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्। मया क्रीड महाराज सीतया किं तवानया
विवर्णया कृपणया मानुष्या राक्षसेश्वर। नूनमस्यां महाराज न देवा भोगसत्तमान्
विदधत्यमरश्रेष्ठास्तव बाहुबलार्जितान्। अकामां कामयानस्य शरीरमुपतप्यते
इच्छतीं कामयानस्य प्रीतिर्भवति शोभना। एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली। प्रहसन् मेघसंकाशो राक्षसः स न्यवर्तत
प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम्। ज्वलद्भास्करसंकाशं प्रविवेश निवेशनम्
देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः। परिवार्य दशग्रीवं प्रविशुस्ता गृहोत्तमम्
स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः। विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश रावणः
thumb|त्रयोविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रयोविंशः सर्गः ॥५-
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते। राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः। परं परुषया वाचा वैदेहीमिदमब्रुवन्