thumb|द्वाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वाविंशः सर्गः ॥५-
सीताया वचनं श्रुत्वा परुषं राक्षसेश्वरः। प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा। यथा यथा प्रियं वक्ता परिभूतस्तथा तथा
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः। द्रवतो मार्गमासाद्य हयानिव सुसारथिः
वामः कामो मनुष्याणां यस्मिन् किल निबध्यते। जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते
एतस्मात् कारणान्न त्वां घातयामि वरानने। वधार्हामवमानार्हां मिथ्या प्रव्रजने रताम्
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम्। तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः। क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः। ततः शयनमारोह मम त्वं वरवर्णिनि
द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम्। मम त्वां प्रातराशार्थे सूदाश्छेत्स्यन्ति खण्डशः
तां भर्त्स्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम्। देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः
ओष्ठप्रकारैरपरा नेत्रैर्वक्त्रैस्तथापराः। सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा
ताभिराश्वासिता सीता रावणं राक्षसाधिपम्। उवाचात्महितं वाक्यं वृत्तशौटीर्यगर्वितम्
नूनं न ते जनः कश्चिदस्मिन्निःश्रेयसि स्थितः। निवारयति यो न त्वां कर्मणोऽस्माद् विगर्हितात्
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः। त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः
राक्षसाधम रामस्य भार्याममिततेजसः। उक्तवानसि यत् पापं क्व गतस्तस्य मोक्ष्यसे
यथा दृप्तश्च मातंगः शशश्च सहितौ वने। तथा द्विरदवद् रामस्त्वं नीच शशवत् स्मृतः
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे। चक्षुषो विषये तस्य न यावदुपगच्छसि
इमे ते नयने क्रूरे विकृते कृष्णपिंगले। क्षितौ न पतिते कस्मान्मामनार्य निरीक्षतः
तस्य धर्मात्मनः पत्नी स्नुषा दशरथस्य च। कथं व्याहरतो मां ते न जिह्वा पाप शीर्यति
असंदेशात्तु रामस्य तपसश्चानुपालनात्। न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा
नापहर्तुमहं शक्या तस्य रामस्य धीमतः। विधिस्तव वधार्थाय विहितो नात्र संशयः
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः। विवृत्य नयने क्रूरे जानकीमन्ववैक्षत
नीलजीमूतसंकाशो महाभुजशिरोधरः। सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वोग्रलोचनः
चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः। रक्तमाल्याम्बरधरस्तप्तांगदविभूषणः
श्रोणीसूत्रेण महता मेचकेन सुसंवृतः। अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः। शुशुभेऽचलसंकाशः शृंगाभ्यामिव मन्दरः
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः। रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः
स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान्। श्मशानचैत्यप्रतिमो भूषितोऽपि भयंकरः
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः। उवाच रावणः सीतां भुजंग इव निःश्वसन्