रावणं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्। नाहमौपयिकी भार्या परभार्या सती तव
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर। यथा तव तथान्येषां रक्ष्या दारा निशाचर
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्। अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम्। नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे। यथा हि विपरीता ते बुद्धिराचारवर्जिता
वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः। राक्षसानामभावाय त्वं वा न प्रतिपद्यसे
अकृतात्मानमासाद्य राजानमनये रतम्। समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च
तथैव त्वां समासाद्य लंका रत्नौघसंकुला। अपराधात् तवैकस्य नचिराद् विनशिष्यति
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः। अभिनन्दन्ति भूतानि विनाशे पापकर्मणः
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः। दिष्ट्यैतद् व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा। अनन्या राघवेणाहं भास्करेण यथा प्रभा
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्। कथं नामोपधास्यामि भुजमन्यस्य कस्यचित्
अहमौपयिकी भार्या तस्यैव च धरापतेः। व्रतस्नातस्य विद्येव विप्रस्य विदितात्मनः
साधु रावण रामेण मां समानय दुःखिताम्। वने वासितया सार्धं करेण्वेव गजाधिपम्
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता। बन्धं चानिच्छता घोरं त्वयासौ पुरुषर्षभः
विदितः सर्वधर्मज्ञः शरणागतवत्सलः। तेन मैत्री भवतु ते यदि जीवितुमिच्छसि
एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे। अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम्
वर्जयेद् वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम्। त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्। शतक्रतुविसृष्टस्य निर्घोषमशनेरिव
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः। इषवो निपतिष्यन्ति रामलक्ष्मणलक्षिताः
रक्षांसि निहनिष्यन्तः पुर्यामस्यां न संशयः। असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः
राक्षसेन्द्रमहासर्पान् स रामगरुडो महान्। उद्धरिष्यति वेगेन वैनतेय इवोरगान्
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः। असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः
जनस्थाने हतस्थाने निहते रक्षसां बले। अशक्तेन त्वया रक्षः कृतमेतदसाधु वै
आश्रमं तत्तयोः शून्यं प्रविश्य नरसिंहयोः। गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम
नहि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया। शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम्। वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य विग्रहे
क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह। तोयमल्पमिवादित्यः प्राणानादास्यते शरैः
गिरिं कुबेरस्य गतोऽथवाऽऽलयं सभां गतो वा वरुणस्य राज्ञः। असंशयं दाशरथेर्विमोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव
thumb|द्वाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वाविंशः सर्गः ॥५-
सीताया वचनं श्रुत्वा परुषं राक्षसेश्वरः। प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्