कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि। कनकविमलहारभूषितांगी विहर मया सह भीरु काननानि
thumb|एकविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकविंशः सर्गः ॥५-
तस्य तद् वचनं श्रुत्वा सीता रौद्रस्य रक्षसः। आर्ता दीनस्वरा दीनं प्रत्युवाच ततः शनैः
दुःखार्ता रुदती सीता वेपमाना तपस्विनी। चिन्तयन्ती वरारोहा पतिमेव पतिव्रता
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता। निवर्तय मनो मत्तः स्वजने प्रीयतां मनः
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत्। अकार्यं न मया कार्यमेकपत्न्या विगर्हितम्
कुलं सम्प्राप्तया पुण्यं कुले महति जातया। एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी
रावणं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्। नाहमौपयिकी भार्या परभार्या सती तव
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर। यथा तव तथान्येषां रक्ष्या दारा निशाचर
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्। अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम्। नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे। यथा हि विपरीता ते बुद्धिराचारवर्जिता
वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः। राक्षसानामभावाय त्वं वा न प्रतिपद्यसे
अकृतात्मानमासाद्य राजानमनये रतम्। समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च
तथैव त्वां समासाद्य लंका रत्नौघसंकुला। अपराधात् तवैकस्य नचिराद् विनशिष्यति
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः। अभिनन्दन्ति भूतानि विनाशे पापकर्मणः
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः। दिष्ट्यैतद् व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा। अनन्या राघवेणाहं भास्करेण यथा प्रभा
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्। कथं नामोपधास्यामि भुजमन्यस्य कस्यचित्
अहमौपयिकी भार्या तस्यैव च धरापतेः। व्रतस्नातस्य विद्येव विप्रस्य विदितात्मनः
साधु रावण रामेण मां समानय दुःखिताम्। वने वासितया सार्धं करेण्वेव गजाधिपम्
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता। बन्धं चानिच्छता घोरं त्वयासौ पुरुषर्षभः
विदितः सर्वधर्मज्ञः शरणागतवत्सलः। तेन मैत्री भवतु ते यदि जीवितुमिच्छसि
एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे। अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम्
वर्जयेद् वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम्। त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्। शतक्रतुविसृष्टस्य निर्घोषमशनेरिव
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः। इषवो निपतिष्यन्ति रामलक्ष्मणलक्षिताः
रक्षांसि निहनिष्यन्तः पुर्यामस्यां न संशयः। असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः
राक्षसेन्द्रमहासर्पान् स रामगरुडो महान्। उद्धरिष्यति वेगेन वैनतेय इवोरगान्
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः। असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः
जनस्थाने हतस्थाने निहते रक्षसां बले। अशक्तेन त्वया रक्षः कृतमेतदसाधु वै