इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम्। सुप्रभाण्यवसज्जन्तां तवांगे भूषणानि हि
साधु पश्यामि ते रूपं सुयुक्तं प्रतिकर्मणा। प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने
भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च। यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च
ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च। मत्प्रासादाल्ललन्त्याश्च ललतां बान्धवस्तव
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशस्विनि। किं करिष्यसि रामेण सुभगे चीरवासिना
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः। व्रती स्थण्डिलशायी च शंके जीवति वा न वा
नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलभ्यते। पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्
न चापि मम हस्तात् त्वां प्राप्तुमर्हति राघवः। हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव
चारुस्मिते चारुदति चारुनेत्रे विलासिनि। मनो हरसि मे भीरु सुपर्णः पन्नगं यथा
क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम्। त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्
अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः। यावत्यो मम सर्वासामैश्वर्यं कुरु जानकि
मम ह्यसितकेशान्ते त्रैलोक्यप्रवरस्त्रियः। तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च। तानि लोकांश्च सुश्रोणि मया भुङ्क्ष्व यथासुखम्
न रामस्तपसा देवि न बलेन च विक्रमैः। न धनेन मया तुल्यस्तेजसा यशसापि वा
पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च। मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते
कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि। कनकविमलहारभूषितांगी विहर मया सह भीरु काननानि
thumb|एकविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकविंशः सर्गः ॥५-
तस्य तद् वचनं श्रुत्वा सीता रौद्रस्य रक्षसः। आर्ता दीनस्वरा दीनं प्रत्युवाच ततः शनैः
दुःखार्ता रुदती सीता वेपमाना तपस्विनी। चिन्तयन्ती वरारोहा पतिमेव पतिव्रता
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता। निवर्तय मनो मत्तः स्वजने प्रीयतां मनः
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत्। अकार्यं न मया कार्यमेकपत्न्या विगर्हितम्
कुलं सम्प्राप्तया पुण्यं कुले महति जातया। एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी
रावणं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्। नाहमौपयिकी भार्या परभार्या सती तव
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर। यथा तव तथान्येषां रक्ष्या दारा निशाचर
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्। अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम्। नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे। यथा हि विपरीता ते बुद्धिराचारवर्जिता
वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः। राक्षसानामभावाय त्वं वा न प्रतिपद्यसे
अकृतात्मानमासाद्य राजानमनये रतम्। समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च
तथैव त्वां समासाद्य लंका रत्नौघसंकुला। अपराधात् तवैकस्य नचिराद् विनशिष्यति
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः। अभिनन्दन्ति भूतानि विनाशे पापकर्मणः