thumb|विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे विंशः सर्गः ॥५-
स तां परिवृतां दीनां निरानन्दां तपस्विनीम्। साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्। अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि
कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये। सर्वांगगुणसम्पन्ने सर्वलोकमनोहरे
नेह किञ्चिन्मनुष्या वा राक्षसाः कामरूपिणः। व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्
स्वधर्मो रक्षसां भीरु सर्वदैव न संशयः। गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा
एवं चैवमकामां त्वां न च स्प्रक्ष्यामि मैथिलि। कामं कामः शरीरे मे यथाकामं प्रवर्तताम्
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये। प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा
एकवेणी अधःशय्या ध्यानं मलिनमम्बरम्। अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते
विचित्राणि च माल्यानि चन्दनान्यगुरूणि च। विविधानि च वासांसि दिव्यान्याभरणानि च
महार्हाणि च पानानि शयनान्यासनानि च। गीतं नृत्यं च वाद्यं च लभ मां प्राप्य मैथिलि
स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्। मां प्राप्य हि कथं वा स्यास्त्वमनर्हा सुविग्रहे
इदं ते चारु संजातं यौवनं ह्यतिवर्तते। यदतीतं पुनर्नैति स्रोतः स्रोतस्विनामिव
त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत्। नहि रूपोपमा ह्यन्या तवास्ति शुभदर्शने
त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्। कः पुनर्नातिवर्तेत साक्षादपि पितामहः
यद् यत् पश्यामि ते गात्रं शीतांशुसदृशानने। तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते
भव मैथिलि भार्या मे मोहमेतं विसर्जय। बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव
लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि मे। तानि ते भीरु सर्वाणि राज्यं चैव ददामि ते
विजित्य पृथिवीं सर्वां नानानगरमालिनीम्। जनकाय प्रदास्यामि तव हेतोर्विलासिनि
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्। पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे
इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम्। सुप्रभाण्यवसज्जन्तां तवांगे भूषणानि हि
साधु पश्यामि ते रूपं सुयुक्तं प्रतिकर्मणा। प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने
भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च। यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च
ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च। मत्प्रासादाल्ललन्त्याश्च ललतां बान्धवस्तव
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशस्विनि। किं करिष्यसि रामेण सुभगे चीरवासिना
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः। व्रती स्थण्डिलशायी च शंके जीवति वा न वा
नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलभ्यते। पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्
न चापि मम हस्तात् त्वां प्राप्तुमर्हति राघवः। हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव
चारुस्मिते चारुदति चारुनेत्रे विलासिनि। मनो हरसि मे भीरु सुपर्णः पन्नगं यथा
क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम्। त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्