ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्। प्रावेपत वरारोहा प्रवाते कदली यथा
ऊरुभ्यामुदरं छाद्य बाहुभ्यां च पयोधरौ। उपविष्टा विशालाक्षी रुदती वरवर्णिनी
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः। ददर्श दीनां दुःखार्तां नावं सन्नामिवार्णवे
असंवृतायामासीनां धरण्यां संशितव्रताम्। छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः
मलमण्डनदिग्धांगीं मण्डनार्हाममण्डनाम्। मृणाली पङ्कदिग्धेव विभाति न विभाति च
समीपं राजसिंहस्य रामस्य विदितात्मनः। संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः
शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम्। दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम्
चेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव। धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना
वृत्तशीले कुले जातामाचारवति धार्मिके। पुनः संस्कारमापन्नां जातामिव च दुष्कुले
सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्। प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव
आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव। दीप्तामिव दिशं काले पूजामपहतामिव
पौर्णमासीमिव निशां तमोग्रस्तेन्दुमण्डलाम्। पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव
प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम्। वेदीमिव परामृष्टां शान्तामग्निशिखामिव
उत्कृष्टपर्णकमलां वित्रासितविहंगमाम्। हस्तिहस्तपरामृष्टामाकुलामिव पद्मिनीम्
पतिशोकातुरां शुष्कां नदीं विस्रावितामिव। परया मृजया हीनां कृष्णपक्षे निशामिव
सुकुमारीं सुजातांगीं रत्नगर्भगृहोचिताम्। तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्
गृहीतामालितां स्तम्भे यूथपेन विनाकृताम्। निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव
उपवासेन शोकेन ध्यानेन च भयेन च। परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम्
आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव। भावेन रघुमुख्यस्य दशग्रीवपराभवम्
समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनाम्। अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः
thumb|विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे विंशः सर्गः ॥५-
स तां परिवृतां दीनां निरानन्दां तपस्विनीम्। साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्। अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि
कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये। सर्वांगगुणसम्पन्ने सर्वलोकमनोहरे
नेह किञ्चिन्मनुष्या वा राक्षसाः कामरूपिणः। व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्
स्वधर्मो रक्षसां भीरु सर्वदैव न संशयः। गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा
एवं चैवमकामां त्वां न च स्प्रक्ष्यामि मैथिलि। कामं कामः शरीरे मे यथाकामं प्रवर्तताम्
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये। प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा
एकवेणी अधःशय्या ध्यानं मलिनमम्बरम्। अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते
विचित्राणि च माल्यानि चन्दनान्यगुरूणि च। विविधानि च वासांसि दिव्यान्याभरणानि च