राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्। सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ
निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः। अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव
व्याविद्धहारकेयूराः समामृदितवर्णकाः। समागलितकेशान्ताः सस्वेदवदनास्तथा
घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः। स्वेदक्लिष्टांगकुसुमाः समाल्याकुलमूर्धजाः
स च कामपराधीनः पतिस्तासां महाबलः। सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ
ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम्। शुश्राव परमस्त्रीणां कपिर्मारुतनन्दनः
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम्। द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः
दीपिकाभिरनेकाभिः समन्तादवभासितम्। गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्। समक्षमिव कंदर्पमपविद्धशरासनम्
मथितामृतफेनाभमरजोवस्त्रमुत्तमम्। सपुष्पमवकर्षन्तं विमुक्तं सक्तमंगदे
तं पत्रविटपे लीनः पत्रपुष्पशतावृतः। समीपमुपसंक्रान्तं विज्ञातुमुपचक्रमे
अवेक्षमाणस्तु तदा ददर्श कपिकुञ्जरः। रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः। तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम्
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः। तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः। तं ददर्श महातेजास्तेजोवन्तं महाकपिः
रावणोऽयं महाबाहुरिति संचिन्त्य वानरः। सोऽयमेव पुरा शेते पुरमध्ये गृहोत्तमे। अवप्लुतो महातेजा हनूमान् मारुतात्मजः
स तथाप्युग्रतेजाः स निर्धूतस्तस्य तेजसा। पत्रे गुह्यान्तरे सक्तो मतिमान् संवृतोऽभवत्
स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम्। दिदृक्षुरसितापांगीमुपावर्तत रावणः
thumb|एकोनविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकोनविंशः सर्गः ॥५-
तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता। रूपयौवनसम्पन्नं भूषणोत्तमभूषितम्
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्। प्रावेपत वरारोहा प्रवाते कदली यथा
ऊरुभ्यामुदरं छाद्य बाहुभ्यां च पयोधरौ। उपविष्टा विशालाक्षी रुदती वरवर्णिनी
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः। ददर्श दीनां दुःखार्तां नावं सन्नामिवार्णवे
असंवृतायामासीनां धरण्यां संशितव्रताम्। छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः
मलमण्डनदिग्धांगीं मण्डनार्हाममण्डनाम्। मृणाली पङ्कदिग्धेव विभाति न विभाति च
समीपं राजसिंहस्य रामस्य विदितात्मनः। संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः
शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम्। दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम्
चेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव। धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना
वृत्तशीले कुले जातामाचारवति धार्मिके। पुनः संस्कारमापन्नां जातामिव च दुष्कुले
सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्। प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव