अतिकायोत्तमांगीं च तनुदीर्घशिरोधराम्। ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम्
लम्बकर्णललाटां च लम्बोदरपयोधराम्। लम्बोष्ठीं चिबुकोष्ठीं च लम्बास्यां लम्बजानुकाम्
ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा। करालां भुग्नवक्त्रां च पिंगाक्षीं विकृताननाम्
विकृताः पिंगलाः कालीः क्रोधनाः कलहप्रियाः। कालायसमहाशूलकूटमुद्गरधारिणीः
वराहमृगशार्दूलमहिषाजशिवामुखाः। गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः। गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः
अतिनासाश्च काश्चिच्च तिर्यङ्नासा अनासिकाः। गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः
हस्तिपादा महापादा गोपादाः पादचूलिकाः। अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः
अतिमात्रास्यनेत्राश्च दीर्घजिह्वाननास्तथा। अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः। शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः
कराला धूम्रकेशिन्यो राक्षसीर्विकृताननाः। पिबन्ति सततं पानं सुरामांससदाप्रियाः
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्। तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्
लक्षयामास लक्ष्मीवान् हनूमाञ्जनकात्मजाम्। निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम्
क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव। चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्
भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम्। राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्
वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव। चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम्
क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्। स तां भर्तृहिते युक्तामयुक्तां रक्षसां वशे
अशोकवनिकामध्ये शोकसागरमाप्लुताम्। ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम्
ददर्श हनुमांस्तत्र लतामकुसुमामिव। सा मलेन च दिग्धांगी वपुषा चाप्यलंकृता। मृणाली पङ्कदिग्धेव विभाति च न भाति च
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्। संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः
तां देवीं दीनवदनामदीनां भर्तृतेजसा। रक्षितां स्वेन शीलेन सीतामसितलोचनाम्
तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम्। मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः
दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः। संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम्
तां क्षमां सुविभक्तांगीं विनाभरणशोभिनीम्। प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्
हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्। मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम्
नमस्कृत्वाथ रामाय लक्ष्मणाय च वीर्यवान्। सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत्
thumb|अष्टादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टादशः सर्गः ॥५-
तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्। विचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाभवत्
षडंगवेदविदुषां क्रतुप्रवरयाजिनाम्। शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम्
अथ मंगलवादित्रैः शब्दैः श्रोत्रमनोहरैः। प्राबोध्यत महाबाहुर्दशग्रीवो महाबलः