हयं च तस्य देवस्य चरन्तमविदूरतः । प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनंदन ॥१-४०-
ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः । खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ॥१-४०-
अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् । अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ॥१-४०-
दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् । श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दन ॥१-४०-
रोषेण महताविष्टो हुंकारमकरोत् तदा । ततस्तेनाप्रमेयेण कपिलेन महात्मना । भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥१-४०-
thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-
पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन । नप्तारमब्रवीद् राजा दीप्यमानं स्वतेजसा ॥१-४१-
शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा । पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥१-४१-
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च । तेषां तु प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥१-४१-
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि । सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-
एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना । धनुरादाय खड्गं च जगाम लघुविक्रमः ॥१-४१-
स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः । प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥१-४१-
देवदानवरक्षोभिः पिशाचपतगोरगैः । पूज्यमानं महातेजा दिशागजमपश्यत ॥१-४१-
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् । पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च ॥१-४१-
दिशागजस्तु तच्छ्रुत्वा प्रत्युवाच महामतिः । आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥१-४१-
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् । यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥१-४१-
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः । पूजितः सहयश्चैवागन्तासीत्यभिचोदितः ॥१-४१-
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः । भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥१-४१-
स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा । चुक्रोश परमार्तस्तु वधात् तेषां सुदुःखितः ॥१-४१-
यज्ञियं च हयं तत्र चरन्तमविदूरतः । ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥१-४१-
स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् । स जलार्थी महातेजा न चापश्यज्जलाशयम् ॥१-४१-
विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् । पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥१-४१-
स चैनमब्रवीद् वाक्यं वैनतेयो महाबलः । मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥१-४१-
कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः । सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥१-४१-
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । तस्यां कुरु महाबाहो पितॄणां तु जल क्रियाम् ॥१-४१-
भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी । तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया । षष्टिं पुत्रसहस्राणि स्वर्गलोकं गमिष्यति ॥१-४१-
निर्गच्छाश्वं महाभाग संगृह्य पुरुषर्षभ। यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि॥१-४१-
सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् । त्वरितं हयमादाय पुनरायान्महातपाः ॥१-४१-
ततो राजानमासाद्य दीक्षितं रघुनन्दन । न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा ॥१-४१-
तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः । यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥१-४१-