सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात् कृता। अचिन्तयित्वा कष्टानि प्रविष्टा निर्जनं वनम्
संतुष्टा फलमूलेन भर्तृशुश्रूषणापरा। या परां भजते प्रीतिं वनेऽपि भवने यथा
सेयं कनकवर्णांगी नित्यं सुस्मितभाषिणी। सहते यातनामेतामनर्थानामभागिनी
इमां तु शीलसम्पन्नां द्रष्टुमिच्छति राघवः। रावणेन प्रमथितां प्रपामिव पिपासितः
अस्या नूनं पुनर्लाभाद् राघवः प्रीतिमेष्यति। राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्
कामभोगैः परित्यक्ता हीना बन्धुजनेन च। धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी
नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान्। एकस्थहृदया नूनं राममेवानुपश्यति
भर्ता नाम परं नार्याः शोभनं भूषणादपि। एषा हि रहिता तेन शोभनार्हा न शोभते
दुष्करं कुरुते रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न दुःखेनावसीदति
इमामसितकेशान्तां शतपत्रनिभेक्षणाम्। सुखार्हां दुःखितां ज्ञात्वा ममापि व्यथितं मनः
क्षितिक्षमा पुष्करसंनिभेक्षणा या रक्षिता राघवलक्ष्मणाभ्याम्। सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते सम्प्रति वृक्षमूले
हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना। सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना
अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः। हिमव्यपायेन च शीतरश्मि- रभ्युत्थितो नैकसहस्ररश्मिः
इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव तु जातबुद्धिः। संश्रित्य तस्मिन् निषसाद वृक्षे बली हरीणामृषभस्तरस्वी
thumb|सप्तदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तदशः सर्गः ॥५-
ततः कुमुदखण्डाभो निर्मलं निर्मलोदयः। प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्
साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः। चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्। शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि
दिदृक्षमाणो वैदेहीं हनूमान् मारुतात्मजः। स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा। अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम्
अतिकायोत्तमांगीं च तनुदीर्घशिरोधराम्। ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम्
लम्बकर्णललाटां च लम्बोदरपयोधराम्। लम्बोष्ठीं चिबुकोष्ठीं च लम्बास्यां लम्बजानुकाम्
ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा। करालां भुग्नवक्त्रां च पिंगाक्षीं विकृताननाम्
विकृताः पिंगलाः कालीः क्रोधनाः कलहप्रियाः। कालायसमहाशूलकूटमुद्गरधारिणीः
वराहमृगशार्दूलमहिषाजशिवामुखाः। गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः। गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः
अतिनासाश्च काश्चिच्च तिर्यङ्नासा अनासिकाः। गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः
हस्तिपादा महापादा गोपादाः पादचूलिकाः। अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः
अतिमात्रास्यनेत्राश्च दीर्घजिह्वाननास्तथा। अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः। शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः