श्यामानि चिरयुक्तत्वात् तथा संस्थानवन्ति च। तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्
तत्र यान्यवहीनानि तान्यहं नोपलक्षये। यान्यस्या नावहीनानि तानीमानि न संशयः
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्। उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः
भूषणानि च मुख्यानि दृष्टानि धरणीतले। अनयैवापविद्धानि स्वनवन्ति महान्ति च
इदं चिरगृहीतत्वाद् वसनं क्लिष्टवत्तरम्। तथाप्यनूनं तद्वर्णं तथा श्रीमद्यथेतरत्
इयं कनकवर्णांगी रामस्य महिषी प्रिया। प्रणष्टापि सती यस्य मनसो न प्रणश्यति
इयं सा यत्कृते रामश्चतुर्भिरिह तप्यते। कारुण्येनानृशंस्येन शोकेन मदनेन च
स्त्री प्रणष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः। पत्नी नष्टेति शोकेन प्रियेति मदनेन च
अस्या देव्या यथारूपमंगप्रत्यंगसौष्ठवम्। रामस्य च यथारूपं तस्येयमसितेक्षणा
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्। तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति
दुष्करं कृतवान् रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न शोकेनावसीदति
एवं सीतां तथा दृष्ट्वा हृष्टः पवनसम्भवः। जगाम मनसा रामं प्रशशंस च तं प्रभुम्
thumb|षोडशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षोडशः सर्गः ॥५-
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः। गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। सीतामाश्रित्य तेजस्वी हनूमान् विललाप ह
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया। यदि सीता हि दुःखार्ता कालो हि दुरतिक्रमः
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः। नात्यर्थं क्षुभ्यते देवी गंगेव जलदागमे
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्। राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्। जगाम मनसा रामं वचनं चेदमब्रवीत्
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः। रावणप्रतिमो वीर्ये कबन्धश्च निपातितः
विराधश्च हतः संख्ये राक्षसो भीमविक्रमः। वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरैरग्निशिखोपमैः
खरश्च निहतः संख्ये त्रिशिराश्च निपातितः। दूषणश्च महातेजा रामेण विदितात्मना
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्। अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोकविश्रुतः
सागरश्च मयाऽऽक्रान्तः श्रीमान् नदनदीपतिः। अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्। अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा। त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम्
इयं सा धर्मशीलस्य जनकस्य महात्मनः। सुता मैथिलराजस्य सीता भर्तृदृढव्रता
विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः। स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः। इयं सा दयिता भार्या राक्षसीवशमागता