तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव। विहतामिव च श्रद्धामाशां प्रतिहतामिव
सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव। अभूतेनापवादेन कीर्तिं निपतितामिव
रामोपरोधव्यथितां रक्षोगणनिपीडिताम्। अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः
बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा। वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्। प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्
तस्य संदिदिहे बुद्धिस्तथा सीतां निरीक्ष्य च। आम्नायानामयोगेन विद्यां प्रशिथिलामिव
दुःखेन बुबुधे सीतां हनुमाननलंकृताम्। संस्कारेण यथा हीनां वाचमर्थान्तरं गताम्
तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम्। तर्कयामास सीतेति कारणैरुपपादयन्
वैदेह्या यानि चांगेषु तदा रामोऽन्वकीर्तयत्। तान्याभरणजालानि गात्रशोभीन्यलक्षयत्
सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ। मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च
श्यामानि चिरयुक्तत्वात् तथा संस्थानवन्ति च। तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्
तत्र यान्यवहीनानि तान्यहं नोपलक्षये। यान्यस्या नावहीनानि तानीमानि न संशयः
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्। उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः
भूषणानि च मुख्यानि दृष्टानि धरणीतले। अनयैवापविद्धानि स्वनवन्ति महान्ति च
इदं चिरगृहीतत्वाद् वसनं क्लिष्टवत्तरम्। तथाप्यनूनं तद्वर्णं तथा श्रीमद्यथेतरत्
इयं कनकवर्णांगी रामस्य महिषी प्रिया। प्रणष्टापि सती यस्य मनसो न प्रणश्यति
इयं सा यत्कृते रामश्चतुर्भिरिह तप्यते। कारुण्येनानृशंस्येन शोकेन मदनेन च
स्त्री प्रणष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः। पत्नी नष्टेति शोकेन प्रियेति मदनेन च
अस्या देव्या यथारूपमंगप्रत्यंगसौष्ठवम्। रामस्य च यथारूपं तस्येयमसितेक्षणा
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्। तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति
दुष्करं कृतवान् रामो हीनो यदनया प्रभुः। धारयत्यात्मनो देहं न शोकेनावसीदति
एवं सीतां तथा दृष्ट्वा हृष्टः पवनसम्भवः। जगाम मनसा रामं प्रशशंस च तं प्रभुम्
thumb|षोडशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षोडशः सर्गः ॥५-
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः। गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। सीतामाश्रित्य तेजस्वी हनूमान् विललाप ह
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया। यदि सीता हि दुःखार्ता कालो हि दुरतिक्रमः
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः। नात्यर्थं क्षुभ्यते देवी गंगेव जलदागमे
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्। राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्। जगाम मनसा रामं वचनं चेदमब्रवीत्
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः। रावणप्रतिमो वीर्ये कबन्धश्च निपातितः