काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्। बह्वासनकुथोपेतां बहुभूमिगृहायुताम्
सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः। पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम्
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत। निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत्
विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः। समूलपुष्परचितैरशोकैः शोकनाशनैः
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्। कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः। पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा
विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः। शातकुम्भनिभाः केचित् केचिदग्निशिखप्रभाः
नीलाञ्जननिभाः केचित् तत्राशोकाः सहस्रशः। नन्दनं विबुधोद्यानं चित्रं चैत्ररथं यथा
अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यश्रियायुतम्। द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम्
पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा। सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः
नानानिनादैरुद्यानं रम्यं मृगगणद्विजैः। अनेकगन्धप्रवहं पुण्यगन्धं मनोहरम्
स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम्। मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम्
प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम्। मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया
निर्मलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्। ततो मलिनसंवीतां राक्षसीभिः समावृताम्
उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः। ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्
मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम्। पिनद्धां धूमजालेन शिखामिव विभावसोः
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा। सपङ्कामनलंकारां विपद्मामिव पद्मिनीम्
पीडितां दुःखसंतप्तां परिक्षीणां तपस्विनीम्। ग्रहेणांगारकेणेव पीडितामिव रोहिणीम्
अश्रुपूर्णमुखीं दीनां कृशामनशनेन च। शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्। स्वगणेन मृगीं हीनां श्वगणेनावृतामिव
नीलनागाभया वेण्या जघनं गतयैकया। नीलया नीरदापाये वनराज्या महीमिव
सुखार्हां दुःखसंतप्तां व्यसनानामकोविदाम्। तां विलोक्य विशालाक्षीमधिकं मलिनां कृशाम्
तर्कयामास सीतेति कारणैरुपपादिभिः। ह्रियमाणा तदा तेन रक्षसा कामरूपिणा
यथारूपा हि दृष्टा सा तथारूपेयमंगना। पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम्
कुर्वतीं प्रभया देवीं सर्वा वितिमिरा दिशः। तां नीलकण्ठीं बिम्बोष्ठीं सुमध्यां सुप्रतिष्ठिताम्
सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा। इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव
भूमौ सुतनुमासीनां नियतामिव तापसीम्। निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव
शोकजालेन महता विततेन न राजतीम्। संसक्तां धूमजालेन शिखामिव विभावसोः
तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव। विहतामिव च श्रद्धामाशां प्रतिहतामिव
सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव। अभूतेनापवादेन कीर्तिं निपतितामिव