दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः। अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः
लताशतैरवतताः संतानकुसुमावृताः। नानागुल्मावृतवनाः करवीरकृतान्तराः
ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम्। विचित्रकूटं कूटैश्च सर्वतः परिवारितम्
शिलागृहैरवततं नानावृक्षसमावृतम्। ददर्श कपिशार्दूलो रम्यं जगति पर्वतम्
ददर्श च नगात् तस्मान्नदीं निपतितां कपिः। अंकादिव समुत्पत्य प्रियस्य पतितां प्रियाम्
जले निपतिताग्रैश्च पादपैरुपशोभिताम्। वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः
पुनरावृत्ततोयां च ददर्श स महाकपिः। प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम्
तस्यादूरात् स पद्मिन्यो नानाद्विजगणायुताः। ददर्श कपिशार्दूलो हनूमान् मारुतात्मजः
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा। मणिप्रवरसोपानां मुक्तासिकतशोभिताम्
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा
काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम्। ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः
सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः। लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम्
काञ्चनीं शिंशपामेकां ददर्श स महाकपिः। वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः
सोऽपश्यद् भूमिभागांश्च नगप्रस्रवणानि च। सुवर्णवृक्षानपरान् ददर्श शिखिसंनिभान्
तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः। अमन्यत तदा वीरः काञ्चनोऽस्मीति सर्वतः
तान् काञ्चनान् वृक्षगणान् मारुतेन प्रकम्पितान्। किङ्किणीशतनिर्घोषान् दृष्ट्वा विस्मयमागमत्
सुपुष्पिताग्रान् रुचिरांस्तरुणाङ्कुरपल्लवान्। तामारुह्य महावेगः शिंशपां पर्णसंवृताम्
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम्। इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया
अशोकवनिका चेयं दृढं रम्या दुरात्मनः। चन्दनैश्चम्पकैश्चापि बकुलैश्च विभूषिता
इयं च नलिनी रम्या द्विजसङ्घनिषेविता। इमां सा राजमहिषी नूनमेष्यति जानकी
सा रामा राजमहिषी राघवस्य प्रिया सती। वनसंचारकुशला ध्रुवमेष्यति जानकी
अथवा मृगशावाक्षी वनस्यास्य विचक्षणा। वनमेष्यति साद्येह रामचिन्तासुकर्शिता
रामशोकाभिसंतप्ता सा देवी वामलोचना। वनवासरता नित्यमेष्यते वनचारिणी
वनेचराणां सततं नूनं स्पृहयते पुरा। रामस्य दयिता चार्या जनकस्य सुता सती
संध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी। नदीं चेमां शुभजलां संध्यार्थे वरवर्णिनी
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा। शुभायाः पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता
यदि जीवति सा देवी ताराधिपनिभानना। आगमिष्यति सावश्यमिमां शीतजलां नदीम्
एवं तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम्। अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः
thumb|पञ्चदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चदशः सर्गः ॥५-
स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्। अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत