निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः। निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः
हनूमता वेगवता कम्पितास्ते नगोत्तमाः। पुष्पपत्रफलान्याशु मुमुचुः फलशालिनः
विहंगसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः। बभूवुरगमाः सर्वे मारुतेन विनिर्धुताः
विधूतकेशी युवतिर्यथा मृदितवर्णका। निपीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता
तथा लांगूलहस्तैस्तु चरणाभ्यां च मर्दिता। तथैवाशोकवनिका प्रभग्नवनपादपा
महालतानां दामानि व्यधमत् तरसा कपिः। यथा प्रावृषि वेगेन मेघजालानि मारुतः
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः। तथा काञ्चनभूमीश्च विचरन् ददृशे कपिः
वापीश्च विविधाकाराः पूर्णाः परमवारिणा। महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः
मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः। काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः
बुद्धपद्मोत्पलवनाश्चक्रवाकोपशोभिताः। नत्यूहरुतसंघुष्टा हंससारसनादिताः
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः। अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः
लताशतैरवतताः संतानकुसुमावृताः। नानागुल्मावृतवनाः करवीरकृतान्तराः
ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम्। विचित्रकूटं कूटैश्च सर्वतः परिवारितम्
शिलागृहैरवततं नानावृक्षसमावृतम्। ददर्श कपिशार्दूलो रम्यं जगति पर्वतम्
ददर्श च नगात् तस्मान्नदीं निपतितां कपिः। अंकादिव समुत्पत्य प्रियस्य पतितां प्रियाम्
जले निपतिताग्रैश्च पादपैरुपशोभिताम्। वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः
पुनरावृत्ततोयां च ददर्श स महाकपिः। प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम्
तस्यादूरात् स पद्मिन्यो नानाद्विजगणायुताः। ददर्श कपिशार्दूलो हनूमान् मारुतात्मजः
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा। मणिप्रवरसोपानां मुक्तासिकतशोभिताम्
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा
काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम्। ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः
सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः। लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम्
काञ्चनीं शिंशपामेकां ददर्श स महाकपिः। वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः
सोऽपश्यद् भूमिभागांश्च नगप्रस्रवणानि च। सुवर्णवृक्षानपरान् ददर्श शिखिसंनिभान्
तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः। अमन्यत तदा वीरः काञ्चनोऽस्मीति सर्वतः
तान् काञ्चनान् वृक्षगणान् मारुतेन प्रकम्पितान्। किङ्किणीशतनिर्घोषान् दृष्ट्वा विस्मयमागमत्
सुपुष्पिताग्रान् रुचिरांस्तरुणाङ्कुरपल्लवान्। तामारुह्य महावेगः शिंशपां पर्णसंवृताम्
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम्। इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया
अशोकवनिका चेयं दृढं रम्या दुरात्मनः। चन्दनैश्चम्पकैश्चापि बकुलैश्च विभूषिता
इयं च नलिनी रम्या द्विजसङ्घनिषेविता। इमां सा राजमहिषी नूनमेष्यति जानकी