तथाऽऽम्रवणसम्पन्नाँल्लताशतसमन्वितान्। ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्
स प्रविश्य विचित्रां तां विहगैरभिनादिताम्। राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम्
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। उदितादित्यसंकाशां ददर्श हनुमान् बली
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः। कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम्
प्रहृष्टमनुजां काले मृगपक्षिमदाकुलाम्। मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम्
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम्। सुखप्रसुप्तान् विहगान् बोधयामास वानरः
उत्पतद्भिर्द्विजगणैः पक्षैर्वातैः समाहताः। अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः
पुष्पावकीर्णः शुशुभे हनूमान् मारुतात्मजः। अशोकवनिकामध्ये यथा पुष्पमयो गिरिः
दिशः सर्वाभिधावन्तं वृक्षखण्डगतं कपिम्। दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णाः पृथग्विधैः। रराज वसुधा तत्र प्रमदेव विभूषिता
निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः। निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः
हनूमता वेगवता कम्पितास्ते नगोत्तमाः। पुष्पपत्रफलान्याशु मुमुचुः फलशालिनः
विहंगसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः। बभूवुरगमाः सर्वे मारुतेन विनिर्धुताः
विधूतकेशी युवतिर्यथा मृदितवर्णका। निपीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता
तथा लांगूलहस्तैस्तु चरणाभ्यां च मर्दिता। तथैवाशोकवनिका प्रभग्नवनपादपा
महालतानां दामानि व्यधमत् तरसा कपिः। यथा प्रावृषि वेगेन मेघजालानि मारुतः
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः। तथा काञ्चनभूमीश्च विचरन् ददृशे कपिः
वापीश्च विविधाकाराः पूर्णाः परमवारिणा। महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः
मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः। काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः
बुद्धपद्मोत्पलवनाश्चक्रवाकोपशोभिताः। नत्यूहरुतसंघुष्टा हंससारसनादिताः
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः। अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः
लताशतैरवतताः संतानकुसुमावृताः। नानागुल्मावृतवनाः करवीरकृतान्तराः
ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम्। विचित्रकूटं कूटैश्च सर्वतः परिवारितम्
शिलागृहैरवततं नानावृक्षसमावृतम्। ददर्श कपिशार्दूलो रम्यं जगति पर्वतम्
ददर्श च नगात् तस्मान्नदीं निपतितां कपिः। अंकादिव समुत्पत्य प्रियस्य पतितां प्रियाम्
जले निपतिताग्रैश्च पादपैरुपशोभिताम्। वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः
पुनरावृत्ततोयां च ददर्श स महाकपिः। प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम्
तस्यादूरात् स पद्मिन्यो नानाद्विजगणायुताः। ददर्श कपिशार्दूलो हनूमान् मारुतात्मजः
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा। मणिप्रवरसोपानां मुक्तासिकतशोभिताम्
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा