संक्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च। सिद्धिं दिशन्तु मे सर्वे देवाः सर्षिगणास्त्विह
ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव तपस्विनः। सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत्
वरुणः पाशहस्तश्च सोमादित्यौ तथैव च। अश्विनौ च महात्मानौ मरुतः सर्व एव च
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः। दास्यन्ति मम ये चान्येऽप्यदृष्टाः पथि गोचराः
तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम्। द्रक्ष्ये तदार्यावदनं कदा न्वहं प्रसन्नताराधिपतुल्यवर्चसम्
क्षुद्रेण हीनेन नृशंसमूर्तिना सुदारुणालंकृतवेषधारिणा। बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत्
thumb|चतुर्दशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुर्दशः सर्गः ॥५-
स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम्। अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः
स तु संहृष्टसर्वांगः प्राकारस्थो महाकपिः। पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान्
सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान्। उद्दालकान् नागवृक्षांश्चूतान् कपिमुखानपि
तथाऽऽम्रवणसम्पन्नाँल्लताशतसमन्वितान्। ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्
स प्रविश्य विचित्रां तां विहगैरभिनादिताम्। राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम्
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्। उदितादित्यसंकाशां ददर्श हनुमान् बली
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः। कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम्
प्रहृष्टमनुजां काले मृगपक्षिमदाकुलाम्। मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम्
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम्। सुखप्रसुप्तान् विहगान् बोधयामास वानरः
उत्पतद्भिर्द्विजगणैः पक्षैर्वातैः समाहताः। अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः
पुष्पावकीर्णः शुशुभे हनूमान् मारुतात्मजः। अशोकवनिकामध्ये यथा पुष्पमयो गिरिः
दिशः सर्वाभिधावन्तं वृक्षखण्डगतं कपिम्। दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णाः पृथग्विधैः। रराज वसुधा तत्र प्रमदेव विभूषिता
निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः। निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः
हनूमता वेगवता कम्पितास्ते नगोत्तमाः। पुष्पपत्रफलान्याशु मुमुचुः फलशालिनः
विहंगसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः। बभूवुरगमाः सर्वे मारुतेन विनिर्धुताः
विधूतकेशी युवतिर्यथा मृदितवर्णका। निपीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता
तथा लांगूलहस्तैस्तु चरणाभ्यां च मर्दिता। तथैवाशोकवनिका प्रभग्नवनपादपा
महालतानां दामानि व्यधमत् तरसा कपिः। यथा प्रावृषि वेगेन मेघजालानि मारुतः
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः। तथा काञ्चनभूमीश्च विचरन् ददृशे कपिः
वापीश्च विविधाकाराः पूर्णाः परमवारिणा। महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः
मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः। काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः
बुद्धपद्मोत्पलवनाश्चक्रवाकोपशोभिताः। नत्यूहरुतसंघुष्टा हंससारसनादिताः