सुजातमूला सुभगा कीर्तिमाला यशस्विनी। प्रभग्ना चिररात्राय मम सीतामपश्यतः
तापसो वा भविष्यामि नियतो वृक्षमूलिकः। नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्
यदि तु प्रतिगच्छामि सीतामनधिगम्य ताम्। अंगदः सहितः सर्वैर्वानरैर्न भविष्यति
विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम्। तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति संगमः
एवं बहुविधं दुःखं मनसा धारयन् बहु। नाध्यगच्छत् तदा पारं शोकस्य कपिकुञ्जरः
ततो विक्रममासाद्य धैर्यवान् कपिकुञ्जरः। रावणं वा वधिष्यामि दशग्रीवं महाबलम्। काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्। रामायोपहरिष्यामि पशुं पशुपतेरिव
इति चिन्तासमापन्नः सीतामनधिगम्य ताम्। ध्यानशोकपरीतात्मा चिन्तयामास वानरः
यावत् सीतां न पश्यामि रामपत्नीं यशस्विनीम्। तावदेतां पुरीं लंकां विचिनोमि पुनः पुनः
सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम्। अपश्यन् राघवो भार्यां निर्दहेत् सर्ववानरान्
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः। न मत्कृते विनश्येयुः सर्वे ते नरवानराः
अशोकवनिका चापि महतीयं महाद्रुमा। इमामधिगमिष्यामि नहीयं विचिता मया
वसून् रुद्रांस्तथाऽऽदित्यानश्विनौ मरुतोऽपि च। नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः
जित्वा तु राक्षसान् देवीमिक्ष्वाकुकुलनन्दिनीम्। सम्प्रदास्यामि रामाय सिद्धीमिव तपस्विने
स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः। उदतिष्ठन् महाबाहुर्हनूमान् मारुतात्मजः
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै। नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्राग्निमरुद्गणेभ्यः
स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः। दिशः सर्वाः समालोक्य सोऽशोकवनिकां प्रति
स गत्वा मनसा पूर्वमशोकवनिकां शुभाम्। उत्तरं चिन्तयामास वानरो मारुतात्मजः
ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला। अशोकवनिका पुण्या सर्वसंस्कारसंस्कृता
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्। भगवानपि विश्वात्मा नातिक्षोभं प्रवायति
संक्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च। सिद्धिं दिशन्तु मे सर्वे देवाः सर्षिगणास्त्विह
ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव तपस्विनः। सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत्
वरुणः पाशहस्तश्च सोमादित्यौ तथैव च। अश्विनौ च महात्मानौ मरुतः सर्व एव च
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः। दास्यन्ति मम ये चान्येऽप्यदृष्टाः पथि गोचराः
तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम्। द्रक्ष्ये तदार्यावदनं कदा न्वहं प्रसन्नताराधिपतुल्यवर्चसम्
क्षुद्रेण हीनेन नृशंसमूर्तिना सुदारुणालंकृतवेषधारिणा। बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत्
thumb|चतुर्दशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुर्दशः सर्गः ॥५-
स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम्। अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः
स तु संहृष्टसर्वांगः प्राकारस्थो महाकपिः। पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान्
सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान्। उद्दालकान् नागवृक्षांश्चूतान् कपिमुखानपि