परुषं दारुणं तीक्ष्णं क्रूरमिन्द्रियतापनम्। सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम्। भृशानुरक्तमेधावी न भविष्यति लक्ष्मणः
विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति। भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति
पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः। कौसल्या च सुमित्रा च कैकेयी च न संशयः
कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः। रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम्
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी। पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्
वालिजेन तु दुःखेन पीडिता शोककर्शिता। पञ्चत्वमागता राज्ञी तारापि न भविष्यति
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च। कुमारोऽप्यंगदस्तस्माद् विजहिष्यति जीवितम्
भर्तृजेन तु दुःखेन अभिभूता वनौकसः। शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च
सान्त्वेनानुप्रदानेन मानेन च यशस्विना। लालिताः कपिनाथेन प्राणांस्त्यक्ष्यन्ति वानराः
न वनेषु न शैलेषु न निरोधेषु वा पुनः। क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः
सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः। शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च
विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा। उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः
घोरमारोदनं मन्ये गते मयि भविष्यति। इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्
सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः। नहि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ। आशया तौ धरिष्येते वानराश्च तरस्विनः
हस्तादानो मुखादानो नियतो वृक्षमूलिकः। वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम्
सागरानूपजे देशे बहुमूलफलोदके। चितिं कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम्
उपविष्टस्य वा सम्यग् लिंगिनं साधयिष्यतः। शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च
इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः। सम्यगापः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम्
सुजातमूला सुभगा कीर्तिमाला यशस्विनी। प्रभग्ना चिररात्राय मम सीतामपश्यतः
तापसो वा भविष्यामि नियतो वृक्षमूलिकः। नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्
यदि तु प्रतिगच्छामि सीतामनधिगम्य ताम्। अंगदः सहितः सर्वैर्वानरैर्न भविष्यति
विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम्। तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति संगमः
एवं बहुविधं दुःखं मनसा धारयन् बहु। नाध्यगच्छत् तदा पारं शोकस्य कपिकुञ्जरः
ततो विक्रममासाद्य धैर्यवान् कपिकुञ्जरः। रावणं वा वधिष्यामि दशग्रीवं महाबलम्। काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्। रामायोपहरिष्यामि पशुं पशुपतेरिव
इति चिन्तासमापन्नः सीतामनधिगम्य ताम्। ध्यानशोकपरीतात्मा चिन्तयामास वानरः
यावत् सीतां न पश्यामि रामपत्नीं यशस्विनीम्। तावदेतां पुरीं लंकां विचिनोमि पुनः पुनः
सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम्। अपश्यन् राघवो भार्यां निर्दहेत् सर्ववानरान्