राक्षस्यो विविधाकारा विरूपा विकृतास्तथा। दृष्टा हनुमता तत्र न तु सा जनकात्मजा
रूपेणाप्रतिमा लोके परा विद्याधरस्त्रियः। दृष्टा हनुमता तत्र न तु राघवनन्दिनी
नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः। दृष्टा हनुमता तत्र न तु सा जनकात्मजा
प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः। दृष्टा हनुमता तत्र न सा जनकनन्दिनी
सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः। विषसाद महाबाहुर्हनूमान् मारुतात्मजः
उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च। व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागतः
अवतीर्य विमानाच्च हनूमान् मारुतात्मजः। चिन्तामुपजगामाथ शोकोपहतचेतनः
thumb|त्रयोदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रयोदशः सर्गः ॥५-
विमानात् तु स संक्रम्य प्राकारं हरियूथपः। हनूमान् वेगवानासीद् यथा विद्युद् घनान्तरे
सम्परिक्रम्य हनुमान् रावणस्य निवेशनान्। अदृष्ट्वा जानकीं सीतामब्रवीद् वचनं कपिः
भूयिष्ठं लोलिता लंका रामस्य चरता प्रियम्। न हि पश्यामि वैदेहीं सीतां सर्वांगशोभनाम्
पल्वलानि तटाकानि सरांसि सरितस्तथा। नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः
लोलिता वसुधा सर्वा न च पश्यामि जानकीम्। इह सम्पातिना सीता रावणस्य निवेशने। आख्याता गृध्रराजेन न च सा दृश्यते न किम्
किं नु सीताथ वैदेही मैथिली जनकात्मजा। उपतिष्ठेत विवशा रावणेन हृता बलात्
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः। बिभ्यतो रामबाणानामन्तरा पतिता भवेत्
अथवा ह्रियमाणायाः पथि सिद्धनिषेविते। मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम्
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च। तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया
उपर्युपरि सा नूनं सागरं क्रमतस्तदा। विचेष्टमाना पतिता समुद्रे जनकात्मजा
आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः। अबन्धुर्भक्षिता सीता रावणेन तपस्विनी
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा। अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति
हा राम लक्ष्मणेत्येवं हायोध्ये चेति मैथिली। विलप्य बहु वैदेही न्यस्तदेहा भविष्यति
अथवा निहिता मन्ये रावणस्य निवेशने। भृशं लालप्यते बाला पञ्जरस्थेव सारिका
जनकस्य कुले जाता रामपत्नी सुमध्यमा। कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्
विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा। रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम्
निवेद्यमाने दोषः स्याद् दोषः स्यादनिवेदने। कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे
अस्मिन् नेवंगते कार्ये प्राप्तकालं क्षमं च किम्। भवेदिति मतिं भूयो हनुमान् प्रविचारयन्
यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः। गमिष्यामि ततः को मे पुरुषार्थो भविष्यति
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति। प्रवेशश्चैव लंकायां राक्षसानां च दर्शनम्
किं वा वक्ष्यति सुग्रीवो हरयो वापि संगताः। किष्किन्धामनुसम्प्राप्तं तौ वा दशरथात्मजौ
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परुषं वचः। न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम्