तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः। अपक्रम्य तदा वीरः प्रस्थातुमुपचक्रमे
स भूयः सर्वतः श्रीमान् मारुतिर्यत्नमाश्रितः। आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे
thumb|द्वादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वादशः सर्गः ॥५-
स तस्य मध्ये भवनस्य संस्थितो लतागृहांश्चित्रगृहान् निशागृहान्। जगाम सीतां प्रतिदर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम्
स चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम्। ध्रुवं न सीता ध्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली
सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती। अनेन नूनं प्रति दुष्टकर्मणा हता भवेदार्यपथे परे स्थिता
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः। समीक्ष्य ता राक्षसराजयोषितो भयाद् विनष्टा जनकेश्वरात्मजा
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम्। न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः
दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः। न सीता दृश्यते साध्वी वृथा जातो मम श्रमः
किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः। गत्वा तत्र त्वया वीर किं कृतं तद् वदस्व नः
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम्। ध्रुवं प्रायमुपासिष्ये कालस्य व्यतिवर्तने
किं वा वक्ष्यति वृद्धश्च जाम्बवानंगदश्च सः। गतं पारं समुद्रस्य वानराश्च समागताः
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्। भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः। करोति सफलं जन्तोः कर्म यच्च करोति सः
आपानशाला विचितास्तथा पुष्पगृहाणि च। चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च
निष्कुटान्तररथ्याश्च विमानानि च सर्वशः। इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे
भूमीगृहांश्चैत्यगृहान् गृहातिगृहकानपि। उत्पतन् निपतंश्चापि तिष्ठन् गच्छन् पुनः क्वचित्
अपवृण्वंश्च द्वाराणि कपाटान्यवघट्टयन्। प्रविशन् निष्पतंश्चापि प्रपतन्नुत्पतन्निव
सर्वमप्यवकाशं स विचचार महाकपिः। चतुरंगुलमात्रोऽपि नावकाशः स विद्यते। रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः
प्राकारान्तरवीथ्यश्च वेदिकाश्चैत्यसंश्रयाः। श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम्
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा। दृष्टा हनुमता तत्र न तु सा जनकात्मजा
रूपेणाप्रतिमा लोके परा विद्याधरस्त्रियः। दृष्टा हनुमता तत्र न तु राघवनन्दिनी
नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः। दृष्टा हनुमता तत्र न तु सा जनकात्मजा
प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः। दृष्टा हनुमता तत्र न सा जनकनन्दिनी
सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः। विषसाद महाबाहुर्हनूमान् मारुतात्मजः
उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च। व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागतः
अवतीर्य विमानाच्च हनूमान् मारुतात्मजः। चिन्तामुपजगामाथ शोकोपहतचेतनः
thumb|त्रयोदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रयोदशः सर्गः ॥५-
विमानात् तु स संक्रम्य प्राकारं हरियूथपः। हनूमान् वेगवानासीद् यथा विद्युद् घनान्तरे
सम्परिक्रम्य हनुमान् रावणस्य निवेशनान्। अदृष्ट्वा जानकीं सीतामब्रवीद् वचनं कपिः