क्वचिदर्धावशेषाणि पश्यन् वै विचचार ह। शयनान्यत्र नारीणां शून्यानि बहुधा पुनः। परस्परं समाश्लिष्य काश्चित् सुप्ता वरांगनाः
काचिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च। उपगम्याबला सुप्ता निद्राबलपराजिता
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम्। नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्
चन्दनस्य च शीतस्य सीधोर्मधुरसस्य च। विविधस्य च माल्यस्य पुष्पस्य विविधस्य च
बहुधा मारुतस्तस्य गन्धं विविधमुद्वहन्। स्नानानां चन्दनानां च धूपानां चैव मूर्च्छितः
प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा। श्यामावदातास्तत्रान्याः काश्चित् कृष्णा वरांगनाः
काश्चित् काञ्चनवर्णांग््यः प्रमदा राक्षसालये। तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम्
पद्मिनीनां प्रसुप्तानां रूपमासीद् यथैव हि। एवं सर्वमशेषेण रावणान्तःपुरं कपिः। ददर्श स महातेजा न ददर्श च जानकीम्
निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः। जगाम महतीं शंकां धर्मसाध्वसशंकितः
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्। इदं खलु ममात्यर्थं धर्मलोपं करिष्यति
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी। अयं चात्र मया दृष्टः परदारपरिग्रहः
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः। निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः। न तु मे मनसा किंचिद् वैकृत्यमुपपद्यते
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने। शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम्
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्। स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे
यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्गते। न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम्
तदिदं मार्गितं तावच्छुद्धेन मनसा मया। रावणान्तःपुरं सर्वं दृश्यते न च जानकी
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्। अवेक्षमाणो हनुमान् नैवापश्यत जानकीम्
तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः। अपक्रम्य तदा वीरः प्रस्थातुमुपचक्रमे
स भूयः सर्वतः श्रीमान् मारुतिर्यत्नमाश्रितः। आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे
thumb|द्वादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वादशः सर्गः ॥५-
स तस्य मध्ये भवनस्य संस्थितो लतागृहांश्चित्रगृहान् निशागृहान्। जगाम सीतां प्रतिदर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम्
स चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम्। ध्रुवं न सीता ध्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली
सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती। अनेन नूनं प्रति दुष्टकर्मणा हता भवेदार्यपथे परे स्थिता
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः। समीक्ष्य ता राक्षसराजयोषितो भयाद् विनष्टा जनकेश्वरात्मजा
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम्। न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः
दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः। न सीता दृश्यते साध्वी वृथा जातो मम श्रमः
किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः। गत्वा तत्र त्वया वीर किं कृतं तद् वदस्व नः
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम्। ध्रुवं प्रायमुपासिष्ये कालस्य व्यतिवर्तने
किं वा वक्ष्यति वृद्धश्च जाम्बवानंगदश्च सः। गतं पारं समुद्रस्य वानराश्च समागताः