अवधूय च तां बुद्धिं बभूवावस्थितस्तदा। जगाम चापरां चिन्तां सीतां प्रति महाकपिः
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी। न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम्
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम्। न हि रामसमः कश्चिद् विद्यते त्रिदशेष्वपि
अन्येयमिति निश्चित्य भूयस्तत्र चचार सः। पानभूमौ हरिश्रेष्ठः सीतासंदर्शनोत्सुकः
क्रीडितेनापराः क्लान्ता गीतेन च तथापराः। नृत्येन चापराः क्लान्ताः पानविप्रहतास्तथा
मुरजेषु मृदंगेषु चेलिकासु च संस्थिताः। तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः
अंगनानां सहस्रेण भूषितेन विभूषणैः। रूपसंलापशीलेन युक्तगीतार्थभाषिणा
देशकालाभियुक्तेन युक्तवाक्याभिधायिना। रताधिकेन संयुक्तां ददर्श हरियूथपः
अन्यत्रापि वरस्त्रीणां रूपसंलापशायिनाम्। सहस्रं युवतीनां तु प्रसुप्तं स ददर्श ह
देशकालाभियुक्तं तु युक्तवाक्याभिधायि तत्। रताविरतसंसुप्तं ददर्श हरियूथपः
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्। करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः
सर्वकामैरुपेतां च पानभूमिं महात्मनः। ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे
मृगाणां महिषाणां च वराहाणां च भागशः। तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः
रौक्मेषु च विशालेषु भाजनेष्वप्यभक्षितान्। ददर्श कपिशार्दूलो मयूरान् कुक्कुटांस्तथा
वराहवाध्रीणसकान् दधिसौवर्चलायुतान्। शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत
कृकलान् विविधांश्छागान् शशकानर्धभक्षितान्। महिषानेकशल्यांश्च मेषांश्च कृतनिष्ठितान्
लेह्यानुच्चावचान् पेयान् भोज्यान्युच्चावचानि च। तथाम्ललवणोत्तंसैर्विविधै रागखाण्डवैः
महानूपुरकेयूरैरपविद्धैर्महाधनैः। पानभाजनविक्षिप्तैः फलैश्च विविधैरपि
कृतपुष्पोपहारा भूरधिकां पुष्यति श्रियम्। तत्र तत्र च विन्यस्तैः सुश्लिष्टशयनासनैः
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते। बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः
मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक्। दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि
शर्करासवमाध्वीकाः पुष्पासवफलासवाः। वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक् पृथक्
संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः। हिरण्मयैश्च कलशैर्भाजनैः स्फाटिकैरपि
जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता। राजतेषु च कुम्भेषु जाम्बूनदमयेषु च
पानश्रेष्ठां तथा भूमिं कपिस्तत्र ददर्श सः। सोऽपश्यच्छातकुम्भानि सीधोर्मणिमयानि च
तानि तानि च पूर्णानि भाजनानि महाकपिः। क्वचिदर्धावशेषाणि क्वचित् पीतान्यशेषतः
क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह। क्वचिद् भक्ष्यांश्च विविधान् क्वचित् पानानि भागशः
क्वचिदर्धावशेषाणि पश्यन् वै विचचार ह। शयनान्यत्र नारीणां शून्यानि बहुधा पुनः। परस्परं समाश्लिष्य काश्चित् सुप्ता वरांगनाः
काचिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च। उपगम्याबला सुप्ता निद्राबलपराजिता
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम्। नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्