शशिप्रकाशवदना वरकुण्डलभूषणाः। अम्लानमाल्याभरणा ददर्श हरियूथपः
नृत्यवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः। वराभरणधारिण्यो निषण्णा ददृशे कपिः
वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम्। ददर्श तापनीयानि कुण्डलान्यंगदानि च
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः। विरराज विमानं तन्नभस्तारागणैरिव
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः। तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः
अंगहारैस्तथैवान्या कोमलैर्नृत्यशालिनी। विन्यस्तशुभसर्वांगी प्रसुप्ता वरवर्णिनी
काचिद् वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते। महानदीप्रकीर्णेव नलिनी पोतमाश्रिता
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा। प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला
पटहं चारुसर्वांगी न्यस्य शेते शुभस्तनी। चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी
काचिद् वीणां परिष्वज्य सुप्ता कमललोचना। वरं प्रियतमं गृह्य सकामेव हि कामिनी
विपञ्चीं परिगृह्यान्या नियता नृत्यशालिनी। निद्रावशमनुप्राप्ता सहकान्तेव भामिनी
अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः। मृदंगं परिविद्ध्यांगैः प्रसुप्ता मत्तलोचना
भुजपाशान्तरस्थेन कक्षगेन कृशोदरी। पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा। प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी
काचिदाडम्बरं नारी भुजसम्भोगपीडितम्। कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता
कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी। वसन्ते पुष्पशबला मालेव परिमार्जिता
पाणिभ्यां च कुचौ काचित् सुवर्णकलशोपमौ। उपगुह्याबला सुप्ता निद्राबलपराजिता
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना। अन्यामालिंग्य सुश्रोणीं प्रसुप्ता मदविह्वला
आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः। निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव
तासामेकान्तविन्यस्ते शयानां शयने शुभे। ददर्श रूपसम्पन्नामथ तां स कपिः स्त्रियम्
मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्। विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम्
गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम्। कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम्
स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः। तर्कयामास सीतेति रूपयौवनसम्पदा। हर्षेण महता युक्तो ननन्द हरियूथपः
आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम। स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम्
thumb|एकादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकादशः सर्गः ॥५-
अवधूय च तां बुद्धिं बभूवावस्थितस्तदा। जगाम चापरां चिन्तां सीतां प्रति महाकपिः
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी। न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम्
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम्। न हि रामसमः कश्चिद् विद्यते त्रिदशेष्वपि
अन्येयमिति निश्चित्य भूयस्तत्र चचार सः। पानभूमौ हरिश्रेष्ठः सीतासंदर्शनोत्सुकः
क्रीडितेनापराः क्लान्ता गीतेन च तथापराः। नृत्येन चापराः क्लान्ताः पानविप्रहतास्तथा