पीत्वाप्युपरतं चापि ददर्श स महाकपिः। भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्
निःश्वसन्तं यथा नागं रावणं वानरोत्तमः। आसाद्य परमोद्विग्नः सोपासर्पत् सुभीतवत्
अथारोहणमासाद्य वेदिकान्तरमाश्रितः। क्षीबं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनं शुभम्। गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत्
काञ्चनांगदसंनद्धौ ददर्श स महात्मनः। विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ
ऐरावतविषाणाग्रैरापीडनकृतव्रणौ। वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ
पीनौ समसुजातांसौ संगतौ बलसंयुतौ। सुलक्षणनखांगुष्ठौ स्वंगुलीयकलक्षितौ
संहतौ परिघाकारौ वृत्तौ करिकरोपमौ। विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ
शशक्षतजकल्पेन सुशीतेन सुगन्धिना। चन्दनेन परार्घ्येन स्वनुलिप्तौ स्वलंकृतौ
उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ। यक्षपन्नगगन्धर्वदेवदानवराविणौ
ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ। मन्दरस्यान्तरे सुप्तौ महाही रुषिताविव
ताभ्यां स परिपूर्णाभ्यामुभाभ्यां राक्षसेश्वरः। शुशुभेऽचलसंकाशः शृंगाभ्यामिव मन्दरः
चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः। मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः
तस्य राक्षसराजस्य निश्चक्राम महामुखात्। शयानस्य विनिःश्वासः पूरयन्निव तद् गृहम्
मुक्तामणिविचित्रेण काञ्चनेन विराजिता। मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम्
रक्तचन्दनदिग्धेन तथा हारेण शोभिना। पीनायतविशालेन वक्षसाभिविराजिता
पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम्। महार्हेण सुसंवीतं पीतेनोत्तरवाससा
माषराशिप्रतीकाशं निःश्वसन्तं भुजंगवत्। गांगे महति तोयान्ते प्रसुप्तमिव कुञ्जरम्
चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानं चतुर्दिशम्। प्रकाशीकृतसर्वांगं मेघं विद्युद्गणैरिव
पादमूलगताश्चापि ददर्श सुमहात्मनः। पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे
शशिप्रकाशवदना वरकुण्डलभूषणाः। अम्लानमाल्याभरणा ददर्श हरियूथपः
नृत्यवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः। वराभरणधारिण्यो निषण्णा ददृशे कपिः
वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम्। ददर्श तापनीयानि कुण्डलान्यंगदानि च
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः। विरराज विमानं तन्नभस्तारागणैरिव
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः। तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः
अंगहारैस्तथैवान्या कोमलैर्नृत्यशालिनी। विन्यस्तशुभसर्वांगी प्रसुप्ता वरवर्णिनी
काचिद् वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते। महानदीप्रकीर्णेव नलिनी पोतमाश्रिता
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा। प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला
पटहं चारुसर्वांगी न्यस्य शेते शुभस्तनी। चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी
काचिद् वीणां परिष्वज्य सुप्ता कमललोचना। वरं प्रियतमं गृह्य सकामेव हि कामिनी