लतानां माधवे मासि फुल्लानां वायुसेवनात्। अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम्
प्रतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम्। आसीद् वनमिवोद्धूतं स्त्रीवनं रावणस्य तत्
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा। विवेकः शक्य आधातुं भूषणांगाम्बरस्रजाम्
रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः। ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तो निमिषा इव
राजर्षिविप्रदैत्यानां गन्धर्वाणां च योषितः। रक्षसां चाभवन् कन्यास्तस्य कामवशंगताः
युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः। समदा मदनेनैव मोहिताः काश्चिदागताः
न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योपपन्नेन गुणेन लब्धाः। न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां तु
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता। भार्याभवत् तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी। इमा महाराक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः
पुनश्च सोऽचिन्तयदात्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता। अथायमस्यां कृतवान् महात्मा लंकेश्वरः कष्टमनार्यकर्म
thumb|दशमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे दशमः सर्गः ॥५-
तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्। अवेक्षमाणो हनुमान् ददर्श शयनासनम्
दान्तकाञ्चनचित्रांगैर्वैदूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपन्नं महाधनैः
तस्य चैकतमे देशे दिव्यमालोपशोभितम्। ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम्
जातरूपपरिक्षिप्तं चित्रभानोः समप्रभम्। अशोकमालाविततं ददर्श परमासनम्
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः। गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्
परमास्तरणास्तीर्णमाविकाजिनसंवृतम्। दामभिर्वरमाल्यानां समन्तादुपशोभितम्
तस्मिञ्जीमूतसंकाशं प्रदीप्तोज्ज्वलकुण्डलम्। लोहिताक्षं महाबाहुं महारजतवाससम्
लोहितेनानुलिप्तांगं चन्दनेन सुगन्धिना। संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम्
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्। सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्
पीत्वाप्युपरतं चापि ददर्श स महाकपिः। भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्
निःश्वसन्तं यथा नागं रावणं वानरोत्तमः। आसाद्य परमोद्विग्नः सोपासर्पत् सुभीतवत्
अथारोहणमासाद्य वेदिकान्तरमाश्रितः। क्षीबं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनं शुभम्। गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत्
काञ्चनांगदसंनद्धौ ददर्श स महात्मनः। विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ
ऐरावतविषाणाग्रैरापीडनकृतव्रणौ। वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ
पीनौ समसुजातांसौ संगतौ बलसंयुतौ। सुलक्षणनखांगुष्ठौ स्वंगुलीयकलक्षितौ
संहतौ परिघाकारौ वृत्तौ करिकरोपमौ। विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ
शशक्षतजकल्पेन सुशीतेन सुगन्धिना। चन्दनेन परार्घ्येन स्वनुलिप्तौ स्वलंकृतौ
उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ। यक्षपन्नगगन्धर्वदेवदानवराविणौ