ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः। नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे
ववल्गुश्चात्र कासांचित् कुण्डलानि शुभार्चिषाम्। मुखमारुतसंकम्पैर्मन्दं मन्दं च योषिताम्
शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः। तासां वदननिःश्वासः सिषेवे रावणं तदा
रावणाननशंकाश्च काश्चिद् रावणयोषितः। मुखानि च सपत्नीनामुपाजिघ्रन् पुनः पुनः
अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः। अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा
बाहूनुपनिधायान्याः पारिहार्यविभूषितान्। अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे
अन्या वक्षसि चान्यस्यास्तस्याः काचित् पुनर्भुजम्। अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा कुचौ
ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः। परस्परनिविष्टांग्यो मदस्नेहवशानुगाः
अन्योन्यस्यांगसंस्पर्शात् प्रीयमाणाः सुमध्यमाः। एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः
अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा। मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा
लतानां माधवे मासि फुल्लानां वायुसेवनात्। अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम्
प्रतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम्। आसीद् वनमिवोद्धूतं स्त्रीवनं रावणस्य तत्
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा। विवेकः शक्य आधातुं भूषणांगाम्बरस्रजाम्
रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः। ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तो निमिषा इव
राजर्षिविप्रदैत्यानां गन्धर्वाणां च योषितः। रक्षसां चाभवन् कन्यास्तस्य कामवशंगताः
युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः। समदा मदनेनैव मोहिताः काश्चिदागताः
न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योपपन्नेन गुणेन लब्धाः। न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां तु
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता। भार्याभवत् तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी। इमा महाराक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः
पुनश्च सोऽचिन्तयदात्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता। अथायमस्यां कृतवान् महात्मा लंकेश्वरः कष्टमनार्यकर्म
thumb|दशमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे दशमः सर्गः ॥५-
तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्। अवेक्षमाणो हनुमान् ददर्श शयनासनम्
दान्तकाञ्चनचित्रांगैर्वैदूर्यैश्च वरासनैः। महार्हास्तरणोपेतैरुपपन्नं महाधनैः
तस्य चैकतमे देशे दिव्यमालोपशोभितम्। ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम्
जातरूपपरिक्षिप्तं चित्रभानोः समप्रभम्। अशोकमालाविततं ददर्श परमासनम्
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः। गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्
परमास्तरणास्तीर्णमाविकाजिनसंवृतम्। दामभिर्वरमाल्यानां समन्तादुपशोभितम्
तस्मिञ्जीमूतसंकाशं प्रदीप्तोज्ज्वलकुण्डलम्। लोहिताक्षं महाबाहुं महारजतवाससम्
लोहितेनानुलिप्तांगं चन्दनेन सुगन्धिना। संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम्
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्। सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्