विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम्। समैर्ऋजुभिरत्युच्चैः समन्तात् सुविभूषितैः
स्तम्भैः पक्षैरिवात्युच्चैर्दिवं सम्प्रस्थितामिव। महत्या कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया
पृथिवीमिव विस्तीर्णां सराष्ट्रगृहशालिनीम्। नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्
परर्घ्यास्तरणोपेतां रक्षोऽधिपनिषेविताम्। धूम्रामगुरुधूपेन विमलां हंसपाण्डुराम्
पत्रपुष्पोपहारेण कल्माषीमिव सुप्रभाम्। मनसो मोदजननीं वर्णस्यापि प्रसाधिनीम्
तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव। इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः
तर्पयामास मातेव तदा रावणपालिता। स्वर्गोऽयं देवलोकोऽयमिन्द्रस्यापि पुरी भवेत्। सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः
प्रध्यायत इवापश्यत् प्रदीपांस्तत्र काञ्चनान्। धूर्तानिव महाधूर्तैर्देवनेन पराजितान्
दीपानां च प्रकाशेन तेजसा रावणस्य च। अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत
ततोऽपश्यत् कुथासीनं नानावर्णाम्बरस्रजम्। सहस्रं वरनारीणां नानावेषबिभूषितम्
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशंगतम्। क्रीडित्वोपरतं रात्रौ प्रसुप्तं बलवत् तदा
तत् प्रसुप्तं विरुरुचे निःशब्दान्तरभूषितम्। निःशब्दहंसभ्रमरं यथा पद्मवनं महत्
तासां संवृतदान्तानि मीलिताक्षीणि मारुतिः। अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम्
प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये। पुनः संवृतपत्राणि रात्राविव बभुस्तदा
इमानि मुखपद्मानि नियतं मत्तषट्पदाः। अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः
इति वामन्यत श्रीमानुपपत्त्या महाकपिः। मेने हि गुणतस्तानि समानि सलिलोद्भवैः
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता। शरदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता
स च ताभिः परिवृतः शुशुभे राक्षसाधिपः। यथा ह्युडुपतिः श्रीमांस्ताराभिरिव संवृतः
याश्च्यवन्तेऽम्बरात् ताराः पुण्यशेषसमावृताः। इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्। प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम्
व्यावृत्तकचपीनस्रक्प्रकीर्णवरभूषणाः। पानव्यायामकालेषु निद्रोपहतचेतसः
व्यावृत्ततिलकाः काश्चित् काश्चिदुदभ्रान्तनूपुराः। पार्श्वे गलितहाराश्च काश्चित् परमयोषितः
मुक्ताहारवृताश्चान्याः काश्चित् प्रस्रस्तवाससः। व्याविद्धरशनादामाः किशोर्य इव वाहिताः
अकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः। गजेन्द्रमृदिताः फुल्ला लता इव महावने
चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुद्गताः। हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम्
अपरासां च वैदूर्याः कादम्बा इव पक्षिणः। हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः। आपगा इव ता रेजुर्जघनैः पुलिनैरिव
किङ्किणीजालसंकाशास्ता हेमविपुलाम्बुजाः। भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः
मृदुष्वंगेषु कासांचित् कुचाग्रेषु च संस्थिताः। बभूवुर्भूषणानीव शुभा भूषणराजयः
अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः। उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः