मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम्। कूटागारैः शुभागारैः सर्वतः समलंकृतम्
ज्वलनार्कप्रतीकाशैः सुकृतं विश्वकर्मणा। हेमसोपानयुक्तं च चारुप्रवरवेदिकम्
जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि। इन्द्रनीलमहानीलमणिप्रवरवेदिकम्
विद्रुमेण विचित्रेण मणिभिश्च महाधनैः। निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम्
चन्दनेन च रक्तेन तपनीयनिभेन च। सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम्
कूटागारैर्वराकारैर्विविधैः समलंकृतम्। विमानं पुष्पकं दिव्यमारुरोह महाकपिः। तत्रस्थः सर्वतो गन्धं पानभक्ष्यान्नसम्भवम्
दिव्यं सम्मूर्च्छितं जिघ्रन् रूपवन्तमिवानिलम्। स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम्
इत एहीत्युवाचेव तत्र यत्र स रावणः। ततस्तां प्रस्थितः शालां ददर्श महतीं शिवाम्
रावणस्य महाकान्तां कान्तामिव वरस्त्रियम्। मणिसोपानविकृतां हेमजालविराजिताम्
स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्। मुक्तावज्रप्रवालैश्च रूप्यचामीकरैरपि
विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम्। समैर्ऋजुभिरत्युच्चैः समन्तात् सुविभूषितैः
स्तम्भैः पक्षैरिवात्युच्चैर्दिवं सम्प्रस्थितामिव। महत्या कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया
पृथिवीमिव विस्तीर्णां सराष्ट्रगृहशालिनीम्। नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्
परर्घ्यास्तरणोपेतां रक्षोऽधिपनिषेविताम्। धूम्रामगुरुधूपेन विमलां हंसपाण्डुराम्
पत्रपुष्पोपहारेण कल्माषीमिव सुप्रभाम्। मनसो मोदजननीं वर्णस्यापि प्रसाधिनीम्
तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव। इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः
तर्पयामास मातेव तदा रावणपालिता। स्वर्गोऽयं देवलोकोऽयमिन्द्रस्यापि पुरी भवेत्। सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः
प्रध्यायत इवापश्यत् प्रदीपांस्तत्र काञ्चनान्। धूर्तानिव महाधूर्तैर्देवनेन पराजितान्
दीपानां च प्रकाशेन तेजसा रावणस्य च। अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत
ततोऽपश्यत् कुथासीनं नानावर्णाम्बरस्रजम्। सहस्रं वरनारीणां नानावेषबिभूषितम्
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशंगतम्। क्रीडित्वोपरतं रात्रौ प्रसुप्तं बलवत् तदा
तत् प्रसुप्तं विरुरुचे निःशब्दान्तरभूषितम्। निःशब्दहंसभ्रमरं यथा पद्मवनं महत्
तासां संवृतदान्तानि मीलिताक्षीणि मारुतिः। अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम्
प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये। पुनः संवृतपत्राणि रात्राविव बभुस्तदा
इमानि मुखपद्मानि नियतं मत्तषट्पदाः। अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः
इति वामन्यत श्रीमानुपपत्त्या महाकपिः। मेने हि गुणतस्तानि समानि सलिलोद्भवैः
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता। शरदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता
स च ताभिः परिवृतः शुशुभे राक्षसाधिपः। यथा ह्युडुपतिः श्रीमांस्ताराभिरिव संवृतः
याश्च्यवन्तेऽम्बरात् ताराः पुण्यशेषसमावृताः। इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्। प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम्