स तस्य मध्ये भवनस्य संस्थितो महद्विमानं मणिरत्नचित्रितम्। प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श धीमान् पवनात्मजः कपिः
तदप्रमेयप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा। दिवं गते वायुपथे प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्म तत्
न तत्र किंचिन्न कृतं प्रयत्नतो न तत्र किंचिन्न महार्घरत्नवत्। न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत्
तपः समाधानपराक्रमार्जितं मनःसमाधानविचारचारिणम्। अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषनिर्मितम्
मनः समाधाय तु शीघ्रगामिनं दुरासदं मारुततुल्यगामिनम्। महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्ऱ्यमुदामिवालयम्
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम्। मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा
वहन्ति यत्कुण्डलशोभितानना महाशना व्योमचरानिशाचराः। विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः
thumb|नवमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे नवमः सर्गः ॥५-
तस्यालयवरिष्ठस्य मध्ये विमलमायतम्। ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः
अर्धयोजनविस्तीर्णमायतं योजनं महत्। भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम्
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम्। सर्वतः परिचक्राम हनूमानरिसूदनः
उत्तमं राक्षसावासं हनुमानवलोकयन्। आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च। परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्। आहृताभिश्च विक्रम्य राजकन्याभिरावृतम्
तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम्। वायुवेगसमाधूतं पन्नगैरिव सागरम्
या हि वैश्रवणे लक्ष्मीर्या चन्द्रे हरिवाहने। सा रावणगृहे रम्या नित्यमेवानपायिनी
तस्य हर्म्यस्य मध्यस्थवेश्म चान्यत् सुनिर्मितम्। बहुनिर्यूहसंयुक्तं ददर्श पवनात्मजः
ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद् विश्वकर्मणा। विमानं पुष्पकं नाम सर्वरत्नविभूषितम्
परेण तपसा लेभे यत् कुबेरः पितामहात्। कुबेरमोजसा जित्वा लेभे तद् राक्षसेश्वरः
ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः। सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया
मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम्। कूटागारैः शुभागारैः सर्वतः समलंकृतम्
ज्वलनार्कप्रतीकाशैः सुकृतं विश्वकर्मणा। हेमसोपानयुक्तं च चारुप्रवरवेदिकम्
जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि। इन्द्रनीलमहानीलमणिप्रवरवेदिकम्
विद्रुमेण विचित्रेण मणिभिश्च महाधनैः। निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम्
चन्दनेन च रक्तेन तपनीयनिभेन च। सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम्
कूटागारैर्वराकारैर्विविधैः समलंकृतम्। विमानं पुष्पकं दिव्यमारुरोह महाकपिः। तत्रस्थः सर्वतो गन्धं पानभक्ष्यान्नसम्भवम्
दिव्यं सम्मूर्च्छितं जिघ्रन् रूपवन्तमिवानिलम्। स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम्
इत एहीत्युवाचेव तत्र यत्र स रावणः। ततस्तां प्रस्थितः शालां ददर्श महतीं शिवाम्
रावणस्य महाकान्तां कान्तामिव वरस्त्रियम्। मणिसोपानविकृतां हेमजालविराजिताम्
स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्। मुक्तावज्रप्रवालैश्च रूप्यचामीकरैरपि