निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः। क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन्
मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः। सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः
हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः। ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने
शिबिका विविधाकाराः स कपिर्मारुतात्मजः। लतागृहाणि चित्राणि चित्रशालागृहाणि च
क्रीडागृहाणि चान्यानि दारुपर्वतकानि च। कामस्य गृहकं रम्यं दिवागृहकमेव च
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने। स मन्दरसमप्रख्यं मयूरस्थानसंकुलम्
ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम्। अनन्तरत्ननिचयं निधिजालं समन्ततः। धीरनिष्ठितकर्माङ्गं गृहं भूतपतेरिव
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च। विरराज च तद् वेश्म रश्मिवानिव रश्मिभिः
जाम्बूनदमयान्येव शयनान्यासनानि च। भाजनानि च शुभ्राणि ददर्श हरियूथपः
मध्वासवकृतक्लेदं मणिभाजनसंकुलम्। मनोरममसम्बाधं कुबेरभवनं यथा
नूपुराणां च घोषेण काञ्चीनां निःस्वनेन च। मृदङ्गतलनिर्घोषैर्घोषवद्भिर्विनादितम्
प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम्। सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम्
thumb|सप्तमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तमः सर्गः ॥५-
स वेश्मजालं बलवान् ददर्श व्यासक्तवैदूर्यसुवर्णजालम्। यथा महत्प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम्
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः। मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि। सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि
तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि। महीतले सर्वगुणोत्तराणि ददर्श लंकाधिपतेर्गृहाणि
ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम्। रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम्
महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम्। नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम्
यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम्। ददर्श युक्तीकृतचारुमेघ- चित्रं विमानं बहुरत्नचित्रम्
मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः। वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम्
कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि। पुनश्च पद्मानि सकेसराणि वनानि चित्राणि सरोवराणि
पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विघूर्णमानम्। वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम्
कृताश्च वैदूर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः। चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः
प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः। कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः
नियुज्यमानाश्च गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः। बभूव देवी च कृतासुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता
इतीव तद्गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुकन्दरम्। पुनश्च तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम्
ततः स तां कपिरभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम्। अदृश्य तां जनकसुतां सुपूजितां सुदुःखितां पतिगुणवेगनिर्जिताम्
ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः। अपश्यतोऽभवदतिदुःखितं मनः सचक्षुषः प्रविचरतो महात्मनः
thumb|अष्टमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टमः सर्गः ॥५-