धूम्राक्षस्याथ सम्पातेर्भवनं मारुतात्मजः। विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च
शुकनाभस्य चक्रस्य शठस्य कपटस्य च। ह्रस्वकर्णस्य दंष्ट्रस्य लोमशस्य च रक्षसः
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य सादिनः। विद्युज्जिह्वद्विजिह्वानां तथा हस्तिमुखस्य च
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि। प्लवमानः क्रमेणैव हनुमान् मारुतात्मजः
तेषु तेषु महार्हेषु भवनेषु महायशाः। तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः
सर्वेषां समतिक्रम्य भवनानि समन्ततः। आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्
रावणस्योपशायिन्यो ददर्श हरिसत्तमः। विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः
शूलमुद्गरहस्तांश्च शक्तितोमरधारिणः। ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे
राक्षसांश्च महाकायान् नानाप्रहरणोद्यतान्। रक्तान् श्वेतान् सितांश्चापि हरींश्चापि महाजवान्
कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान्। शिक्षितान् गजशिक्षायामैरावतसमान् युधि
निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः। क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन्
मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः। सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः
हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः। ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने
शिबिका विविधाकाराः स कपिर्मारुतात्मजः। लतागृहाणि चित्राणि चित्रशालागृहाणि च
क्रीडागृहाणि चान्यानि दारुपर्वतकानि च। कामस्य गृहकं रम्यं दिवागृहकमेव च
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने। स मन्दरसमप्रख्यं मयूरस्थानसंकुलम्
ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम्। अनन्तरत्ननिचयं निधिजालं समन्ततः। धीरनिष्ठितकर्माङ्गं गृहं भूतपतेरिव
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च। विरराज च तद् वेश्म रश्मिवानिव रश्मिभिः
जाम्बूनदमयान्येव शयनान्यासनानि च। भाजनानि च शुभ्राणि ददर्श हरियूथपः
मध्वासवकृतक्लेदं मणिभाजनसंकुलम्। मनोरममसम्बाधं कुबेरभवनं यथा
नूपुराणां च घोषेण काञ्चीनां निःस्वनेन च। मृदङ्गतलनिर्घोषैर्घोषवद्भिर्विनादितम्
प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम्। सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम्
thumb|सप्तमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तमः सर्गः ॥५-
स वेश्मजालं बलवान् ददर्श व्यासक्तवैदूर्यसुवर्णजालम्। यथा महत्प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम्
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः। मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि। सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि
तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि। महीतले सर्वगुणोत्तराणि ददर्श लंकाधिपतेर्गृहाणि
ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम्। रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम्
महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम्। नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम्
यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम्। ददर्श युक्तीकृतचारुमेघ- चित्रं विमानं बहुरत्नचित्रम्