अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्घ्यास्तपनीयवर्णाः। पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः
ततः प्रियान् प्राप्य मनोऽभिरामान् सुप्रीतियुक्ताः सुमनोऽभिरामाः। गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः
चन्द्रप्रकाशाश्च हि वक्त्रमाला वक्राः सुपक्ष्माश्च सुनेत्रमालाः। विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः
न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम्। लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाभिजाताम्
सनातने वर्त्मनि संनिविष्टां रामेक्षणीं तां मदनाभिविष्टाम्। भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यः पराभ्यश्च सदा विशिष्टाम्
उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम्। सुजातपक्ष्मामभिरक्तकण्ठीं वने प्रनृत्तामिव नीलकण्ठीम्
अव्यक्तरेखामिव चन्द्रलेखां पांसुप्रदिग्धामिव हेमरेखाम्। क्षतप्ररूढामिव वर्णरेखां वायुप्रभुग्नामिव मेघरेखाम्
सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य। बभूव दुःखोपहतश्चिरस्य प्लवंगमो मन्द इवाचिरस्य
thumb|षष्ठः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षष्ठः सर्गः ॥५-
स निकामं विमानेषु विचरन् कामरूपधृक्। विचचार कपिर्लङ्कां लाघवेन समन्वितः
आससाद च लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्। प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम्
रक्षितं राक्षसैर्भीमैः सिंहैरिव महद् वनम्। समीक्षमाणो भवनं चकाशे कपिकुञ्जरः
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषणैः। विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम्
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः। उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः
बहुरत्नसमाकीर्णं परार्घ्यासनभूषितम्। महारथसमावापं महारथमहासनम्
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः। विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्। मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम्। वराभरणसंह्रादैः समुद्रस्वननिःस्वनम्
तद् राजगुणसम्पन्नं मुख्यैश्च वरचन्दनैः। महाजनसमाकीर्णं सिंहैरिव महद् वनम्
भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम्। नित्यार्चितं पर्वसुतं पूजितं राक्षसैः सदा
समुद्रमिव गम्भीरं समुद्रसमनिःस्वनम्। महात्मनो महद् वेश्म महारत्नपरिच्छदम्
महारत्नसमाकीर्णं ददर्श स महाकपिः। विराजमानं वपुषा गजाश्वरथसंकुलम्
लंकाभरणमित्येव सोऽमन्यत महाकपिः। चचार हनुमांस्तत्र रावणस्य समीपतः
गृहाद् गृहं राक्षसानामुद्यानानि च सर्वशः। वीक्षमाणोऽप्यसंत्रस्तः प्रासादांश्च चचार सः
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम्। विभीषणस्य च तथा पुप्लुवे स महाकपिः
महोदरस्य च तथा विरूपाक्षस्य चैव हि। विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। शुकस्य च महावेगः सारणस्य च धीमतः
तथा चेन्द्रजितो वेश्म जगाम हरियूथपः। जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च। वज्रकायस्य च तथा पुप्लुवे स महाकपिः