मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि। वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि
परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिविक्षिपन्ति। मत्तप्रलापानधिविक्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति
रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति। रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति
ददर्श कान्ताश्च समालभन्त्य- स्तथापरास्तत्र पुनः स्वपन्त्यः। सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः
महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः। रराज वीरैश्च विनिःश्वसद्भि- र्ह्रदा भुजंगैरिव निःश्वसद्भिः
बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्दधानाञ्जगतः प्रधानान्। नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान्
ननन्द दृष्ट्वा स च तान् सुरूपान् नानागुणानात्मगुणानुरूपान्। विद्योतमानान् स च तान् सुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान्
ततो वरार्हाः सुविशुद्धभावा- स्तेषां स्त्रियस्तत्र महानुभावाः। प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुस्वभावाः
स्त्रियो ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः। ददर्श काश्चित् प्रमदोपगूढा यथा विहंगा विहगोपगूढाः
अन्याः पुनर्हर्म्यतलोपविष्टा- स्तत्र प्रियाङ्केषु सुखोपविष्टाः। भर्तुः परा धर्मपरा निविष्टा ददर्श धीमान् मदनोपविष्टाः
अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्घ्यास्तपनीयवर्णाः। पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः
ततः प्रियान् प्राप्य मनोऽभिरामान् सुप्रीतियुक्ताः सुमनोऽभिरामाः। गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः
चन्द्रप्रकाशाश्च हि वक्त्रमाला वक्राः सुपक्ष्माश्च सुनेत्रमालाः। विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः
न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम्। लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाभिजाताम्
सनातने वर्त्मनि संनिविष्टां रामेक्षणीं तां मदनाभिविष्टाम्। भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यः पराभ्यश्च सदा विशिष्टाम्
उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम्। सुजातपक्ष्मामभिरक्तकण्ठीं वने प्रनृत्तामिव नीलकण्ठीम्
अव्यक्तरेखामिव चन्द्रलेखां पांसुप्रदिग्धामिव हेमरेखाम्। क्षतप्ररूढामिव वर्णरेखां वायुप्रभुग्नामिव मेघरेखाम्
सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य। बभूव दुःखोपहतश्चिरस्य प्लवंगमो मन्द इवाचिरस्य
thumb|षष्ठः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षष्ठः सर्गः ॥५-
स निकामं विमानेषु विचरन् कामरूपधृक्। विचचार कपिर्लङ्कां लाघवेन समन्वितः
आससाद च लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्। प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम्
रक्षितं राक्षसैर्भीमैः सिंहैरिव महद् वनम्। समीक्षमाणो भवनं चकाशे कपिकुञ्जरः
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषणैः। विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम्
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः। उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः
बहुरत्नसमाकीर्णं परार्घ्यासनभूषितम्। महारथसमावापं महारथमहासनम्
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः। विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्। मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम्। वराभरणसंह्रादैः समुद्रस्वननिःस्वनम्
तद् राजगुणसम्पन्नं मुख्यैश्च वरचन्दनैः। महाजनसमाकीर्णं सिंहैरिव महद् वनम्
भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम्। नित्यार्चितं पर्वसुतं पूजितं राक्षसैः सदा