तस्य तद् वचनं श्रुत्वा कौतूहलसमन्वितः । विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ॥१-३९-
श्रूयतां विस्तरो राम सगरस्य महात्मनः । शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥१-३९-
विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् । तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम ॥१-३९-
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि । तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ॥१-३९-
अंशुमानकरोत् तात सगरस्य मते स्थितः । तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ॥१-३९-
राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् । ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ॥१-३९-
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् । अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ॥१-३९-
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् । यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ॥१-३९-
तत् तथा क्रियतां राजन् यज्ञोच्छिद्रः कृतो भवेत् । सोपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१-३९-
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह । गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ॥१-३९-
मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः । तद् गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ॥१-३९-
समुद्रमालिनीं सर्वां पृथिवीमनुगच्छथ । एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥१-३९-
यावत् तुरगसंदर्शस्तावत् खनत मेदिनीम् । तमेव हयहर्तारं मार्गमाणा ममाज्ञया ॥१-३९-
दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम् । इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम् ॥१-३९-
ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः । जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥१-३९-
गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः । योजनायामविस्तारमेकैको धरणीतलम् । बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः ॥१-३९-
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः । भिद्यमाना वसुमती ननाद रघुनन्दन ॥१-३९-
नागानां वध्यमानानामसुराणां च राघव । राक्षसानां दुराधर्षं सत्त्वानां निनदोऽभवत् ॥१-३९-
योजनानां सहस्राणि षष्टिं तु रघुनन्दन । बिभिदुर्धरणीं राम रसातलमनुत्तमम् ॥१-३९-
एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः । खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥१-३९-
ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः । सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥१-३९-
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा । ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ॥१-३९-
भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः बहवश्च महात्मानो वध्यन्ते जलचारिणः ॥१-३९-
अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते । इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः ॥१-३९-
thumb|चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे चत्वारिंशः सर्गः ॥१-
देवतानां वचः श्रुत्वा भगवान् वै पितामहः । प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ॥१-४०-
यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः । महिषी माधवस्यैषा स एव भगवन् प्रभुः ॥१-४०-
कापिलं रूपमास्थाय धारयत्यनिशं धराम् । तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ॥१-४०-
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः । सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम् ॥१-४०-
पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमाः । देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥१-४०-