विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः। ध्वजिनः पताकिनश्चैव ददर्श विविधायुधान्
शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः। क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः
स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान्। नानावेषसमायुक्तान् यथास्वैरचरान् बहून्
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्। शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः
रक्षोऽधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः। स तदा तद् गृहं दृष्ट्वा महाहाटकतोरणम्
राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम्। पुण्डरीकावतंसाभिः परिखाभिः समावृतम्
प्राकारावृतमत्यन्तं ददर्श स महाकपिः। त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम्
वाजिह्रेषितसंघुष्टं नादितं भूषणैस्तथा। रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः
वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः। भूषितै रुचिरद्वारं मत्तैश्च मृगपक्षिभिः
रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः। राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः
स हेमजाम्बूनदचक्रवालं महार्हमुक्तामणि भूषितान्तम्। परार्घ्यकालागुरुचन्दनार्हं स रावणान्तःपुरमाविवेश
thumb|पञ्चमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चमः सर्गः ॥५-
ततः स मध्यंगतमंशुमन्तं ज्योत्स्नावितानं मुहुरुद्वमन्तम्। ददर्श धीमान् भुवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम्
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम्। भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम्
या भाति लक्ष्मीर्भुवि मन्दरस्था यथा प्रदोषेषु च सागरस्था। तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था
हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः। वीरो यथा गर्वितकुञ्जरस्थ- श्चन्द्रोऽपि बभ्राज तथाम्बरस्थः
विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः। प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवान् शशाङ्कः
शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः। राज्यं समासाद्य यथा नरेन्द्र- स्तथा प्रकाशो विरराज चन्द्रः
प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षःपिशिताशदोषः। रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः
तन्त्रीस्वराः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः। नक्तंचराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः
मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि। वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि
परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिविक्षिपन्ति। मत्तप्रलापानधिविक्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति
रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति। रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति
ददर्श कान्ताश्च समालभन्त्य- स्तथापरास्तत्र पुनः स्वपन्त्यः। सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः
महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः। रराज वीरैश्च विनिःश्वसद्भि- र्ह्रदा भुजंगैरिव निःश्वसद्भिः
बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्दधानाञ्जगतः प्रधानान्। नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान्
ननन्द दृष्ट्वा स च तान् सुरूपान् नानागुणानात्मगुणानुरूपान्। विद्योतमानान् स च तान् सुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान्
ततो वरार्हाः सुविशुद्धभावा- स्तेषां स्त्रियस्तत्र महानुभावाः। प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुस्वभावाः
स्त्रियो ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः। ददर्श काश्चित् प्रमदोपगूढा यथा विहंगा विहगोपगूढाः
अन्याः पुनर्हर्म्यतलोपविष्टा- स्तत्र प्रियाङ्केषु सुखोपविष्टाः। भर्तुः परा धर्मपरा निविष्टा ददर्श धीमान् मदनोपविष्टाः