स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः। सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी। पपात सहसा भूमौ विकृताननदर्शना
ततस्तु हनुमान् वीरस्तां दृष्ट्वा विनिपातिताम्। कृपां चकार तेजस्वी मन्यमानः स्त्रियं च ताम्
ततो वै भृशमुद्विग्ना लंका सा गद्गदाक्षरम्। उवाचागर्वितं वाक्यं हनुमन्तं प्लवङ्गमम्
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम। समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः
अहं तु नगरी लंका स्वयमेव प्लवङ्गम। निर्जिताहं त्वया वीर विक्रमेण महाबल
इदं च तथ्यं शृणु मे ब्रुवन्त्या वै हरीश्वर। स्वयं स्वयम्भुवा दत्तं वरदानं यथा मम
यदा त्वां वानरः कश्चिद् विक्रमाद् वशमानयेत्। तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्
स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात्। स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः। रक्षसां चैव सर्वेषां विनाशः समुपागतः
तत् प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्। विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि
प्रविश्य शापोपहतां हरीश्वर पुरीं शुभां राक्षसमुख्यपालिताम्। यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम्
thumb|चतुर्थः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुर्थः सर्गः ॥५-
स निर्जित्य पुरीं लंकां श्रेष्ठां तां कामरूपिणीम्। विक्रमेण महातेजा हनूमान् कपिसत्तमः
अद्वारेण महावीर्यः प्राकारमवपुप्लुवे। निशि लंकां महासत्त्वो विवेश कपिकुञ्जरः
प्रविश्य नगरीं लंकां कपिराजहितंकरः। चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि
ततस्तु तां पुरीं लंकां रम्यामभिययौ कपिः। हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्कृतैः
वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः। गृहमेघैः पुरी रम्या बभासे द्यौरिवाम्बुदैः
प्रजज्वाल तदा लंका रक्षोगणगृहैः शुभैः। सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः
वर्धमानगृहैश्चापि सर्वतः सुविभूषितैः। तां चित्रमाल्याभरणां कपिराजहितंकरः
राघवार्थे चरन् श्रीमान् ददर्श च ननन्द च। भवनाद् भवनं गच्छन् ददर्श कपिकुञ्जरः
विविधाकृतिरूपाणि भवनानि ततस्ततः। शुश्राव रुचिरं गीतं त्रिस्थानस्वरभूषितम्
स्त्रीणां मदनविद्धानां दिवि चाप्सरसामिव। शुश्राव काञ्चीनिनदं नूपुराणां च निःस्वनम्
सोपाननिनदांश्चापि भवनेषु महात्मनाम्। आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः
शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै। स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः
रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि। राजमार्गं समावृत्य स्थितं रक्षोगणं महत्
ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून्। दीक्षिताञ्जटिलान् मुण्डान् गोजिनाम्बरवाससः
दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा। कूटमुद्गरपाणींश्च दण्डायुधधरानपि
एकाक्षानेकवर्णांश्च लंबोदरपयोधरान्। करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा
धन्विनः खड्गिनश्चैव शतघ्नीमुसलायुधान्। परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्
नातिस्थूलान् नातिकृशान् नातिदीर्घातिह्रस्वकान्। नातिगौरान् नातिकृष्णान्नातिकुब्जान्न वामनान्