पुरस्तात् तस्य वीरस्य वायुसूनोरतिष्ठत। मुञ्चमाना महानादमब्रवीत् पवनात्मजम्
कस्त्वं केन च कार्येण इह प्राप्तो वनालय। कथयस्वेह यत् तत्त्वं यावत् प्राणा धरन्ति ते
न शक्यं खल्वियं लंका प्रवेष्टुं वानर त्वया। रक्षिता रावणबलैरभिगुप्ता समन्ततः
अथ तामब्रवीद् वीरो हनुमानग्रतः स्थिताम्। कथयिष्यामि तत् तत्त्वं यन्मां त्वं परिपृच्छसे
का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसे। किमर्थं चापि मां क्रोधान्निर्भर्त्सयसि दारुणे
हनुमद्वचनं श्रुत्वा लंका सा कामरूपिणी। उवाच वचनं क्रुद्धा परुषं पवनात्मजम्
अहं राक्षसराजस्य रावणस्य महात्मनः। आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम्
न शक्यं मामवज्ञाय प्रवेष्टुं नगरीमिमाम्। अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया
अहं हि नगरी लंका स्वयमेव प्लवङ्गम। सर्वतः परिरक्षामि अतस्ते कथितं मया
लंकाया वचनं श्रुत्वा हनुमान् मारुतात्मजः। यत्नवान् स हरिश्रेष्ठः स्थितः शैल इवापरः
स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः। आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः
द्रक्ष्यामि नगरीं लंकां साट्टप्राकारतोरणाम्। इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे
वनान्युपवनानीह लंकायाः काननानि च। सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे
तस्य तद् वचनं श्रुत्वा लंका सा कामरूपिणी। भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम्
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम्। न शक्यं ह्यद्य ते द्रष्टुं पुरीयं वानराधम
ततः स हरिशार्दूलस्तामुवाच निशाचरीम्। दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम्
ततः कृत्वा महानादं सा वै लंका भयंकरम्। तलेन वानरश्रेष्ठं ताडयामास वेगिता
ततः स हरिशार्दूलो लंकया ताडितो भृशम्। ननाद सुमहानादं वीर्यवान् मारुतात्मजः
ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः। मुष्टिनाभिजघानैनां हनुमान् क्रोधर्मूच्छितः
स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः। सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी। पपात सहसा भूमौ विकृताननदर्शना
ततस्तु हनुमान् वीरस्तां दृष्ट्वा विनिपातिताम्। कृपां चकार तेजस्वी मन्यमानः स्त्रियं च ताम्
ततो वै भृशमुद्विग्ना लंका सा गद्गदाक्षरम्। उवाचागर्वितं वाक्यं हनुमन्तं प्लवङ्गमम्
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम। समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः
अहं तु नगरी लंका स्वयमेव प्लवङ्गम। निर्जिताहं त्वया वीर विक्रमेण महाबल
इदं च तथ्यं शृणु मे ब्रुवन्त्या वै हरीश्वर। स्वयं स्वयम्भुवा दत्तं वरदानं यथा मम
यदा त्वां वानरः कश्चिद् विक्रमाद् वशमानयेत्। तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्
स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात्। स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः। रक्षसां चैव सर्वेषां विनाशः समुपागतः
तत् प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्। विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि
प्रविश्य शापोपहतां हरीश्वर पुरीं शुभां राक्षसमुख्यपालिताम्। यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम्